संस्कृत-शब्दकोशः

राजनील राजन्य

राजन्

वाचस्पत्यम्

राजन् ||‍ पु० राज—कनिन् रञ्जयति रन्ज—कनिन् नि० वा । १ नृपे, “राजा प्रकृतिरञ्जनात्” रघुः । २ चन्द्रे, ३ प्रभौ, ४ क्षत्रिये, ५ यक्षे ६ इन्द्रे, च मेदि० । उत्तरस्थपदः पूर्व- पदस्थश्च सममिव्याहृतपदार्थश्रेष्ठवाचकः । यथा राजमाषः मुनिराज इत्यादि । ७ पृथुनृपे च । “पित्रा न रञ्जि- तास्तस्य प्रजास्तेनानुरञ्जिताः । अनुरागात्ततस्तस्य नाम राजेत्यभाषत” विष्णुपु० ।


शब्दकल्पद्रुमः

राजा || [न्] पुं, (राजते शोभते इति । राज् + “कणिन् युवृषितक्षिराजीति ।” उणा० १ । १५६ । इति कणिन् ।)
प्रभुः । नृपतिः । (यथा- रघुः । ४ । ११ । “यथा प्रह्लादनात् चन्द्रः प्रतापात् तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥”)
क्षत्त्रियः । (यथा, मनुः । २ । ३२ । “शर्म्मवद्ब्राह्मणस्य स्यात् राज्ञो रक्षासम- न्वितम् । वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रैष्यसंयुतम् ॥”)
चन्द्रः । यक्षः । इन्द्रः । इति मेदिनी ॥ उत्तर- पदे चेत् श्रेष्ठार्थवाचकः ॥ अथ नृपतेः पर्य्यायः । राट् २ पार्थिवः ३ क्ष्माभृत् ४ नृपः ५ भूषः ६ महीक्षित् ७ । इत्यमरः ॥ नरपतिः ८ पार्थः ९ नृपतिः १० भूपालः ११ भूभृत् १२ महीपतिः १३ नाभिः १४ नाराट् १५ भूमीन्द्रः १६ नरेन्द्रः १७ नायकाधिपः १८ । इति शब्दरत्नावली ॥ प्रजेश्वरः १९ भूमिपः २० इनः २१ दण्डधरः २२ अवनीपतिः २३ स्कन्दः २४ स्कन्धः २५ भूभुक् २६ अर्थपतिः २७ । इति जटाधरः ॥ * ॥
अस्य व्युत्पत्तिर्यथा, —
“महता राजराज्येन पृथुर्वैण्यः प्रतापवान् । सोऽभिषिक्तो महातेजा विधिवद्धर्म्मकोविदैः ॥ पित्रापरञ्जितास्तस्य प्रजास्तनानुरञ्जिताः । अनुरागात्ततस्तस्य नाम राजेत्यभाषत ॥” इति विष्णुपुराणे १ अंशे १३ अध्यायः ॥ अपि च । “रागी राजसिकं स्वर्ग्यं कुरुते कर्म्म रागतः । रागान्धाश्च राजसिकास्तेन राजा प्रकीर्त्तितः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्यायः ॥ * ॥
तस्य सर्व्वपितृत्वं यथा, — शच्युवाच । “शृणु वत्स ! महाराज हे तात ! भयभञ्जन । भयत्राता च राजा च सर्व्वेषां पालकः पिता ॥ भ्रष्टश्रीश्च महेन्द्रोऽद्य त्वञ्च स्वर्गे नृपोऽधुना । यो राजा स पिता पाता प्रजानामेष निश्चयः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ५९ अध्यायः ॥ पृथोरेवादौ राजा इति संज्ञा आसीत् । यथा, “देवैर्विप्रैस्तथा सर्वैरभिषिक्तो महामनाः । राज्ञाञ्चैवाधिकारे वै पृथुर्वैण्यः प्रतापवान् ॥ तदा पित्रा प्रजाः सर्व्वाः कदा नैवानुरञ्जिताः । तेनानुरञ्जिताः सर्व्वाः सुखैर्म्मुमुदिरे तदा । अनुरागात्तस्य वीरस्य नाम राजेत्यभाषत ॥” इति पाद्मे भूखण्डे २९ अध्यायः ॥ * ॥
अथ राजलक्षणम् । “सोऽपि कृष्णपटे बालं दृष्ट्वाशीविषपीडितम् । नरेन्द्रलक्षणोपेतं चिन्तामाप नरेश्वरः ॥ तस्यास्यं चन्द्रविम्बाभं सुभ्रु रम्यं समुन्नसम् । नीलाः केशाः कुञ्चिताश्च समा दीर्घास्तर- ङ्गिताः ॥ राजीवनेत्रयुगलो विम्बोष्ठपुटसंवृतः । चतुर्द्दंष्ट्रश्चतुष्किष्कुर्द्दीर्घास्यो दीर्घबाहुकः ॥ चतुर्लेखाकरो मास्ययववृद्धैकपर्व्वकः । शिरालपादो गम्भीरः सूक्ष्मत्वक् त्रिबलीधरः ॥” इति मार्कण्डेयपुराणे हरिश्चन्द्रोपाख्याना- ध्यायः ॥ * ॥
अन्यच्च । “अस्वेदिनौ मृदुतरौ कमलोदरसन्निभौ । श्लिष्टाङ्गुली ताम्रनखौ पादावुष्णौ शिरोज्- झितौ । कूर्म्मोन्नतौ गूढगुल्फौ सुपार्ष्णी नृपतेः स्मृतौ ॥ मृदुलोमा समा जङ्घा तथा करिकरप्रभा । उरवो जानवस्तुल्या नृपस्योपचिताः स्मृताः ॥ कोषगूढे नृपो दीर्घैर्भुग्नैश्च धनवर्ज्जितः । समाभ्यां क्षितिपः प्रोक्तः प्रलम्बेन शताब्दवान् ॥ सशब्दनिःशब्दमूत्राः स्यर्द्दरिद्राश्च मानवाः । एकद्वित्रिचतुःपञ्चषड्धारादिभिरेव च ॥ दक्षिणावर्त्तचलितशुभ्राभिश्च नृपाः स्मृताः । नृपाः पुष्पगन्धिशुक्रा मधुगन्धे धनं बहु ॥ मांसलस्फिक् सुखी स्याच्च सिंहस्फिक् भूपतिः स्मृतः । भवेत् सिंहकटी राजा निस्वः कपिकटिर्नरः ॥ नृपाश्चोन्नतकक्षाः स्युर्ज्जिह्मा विषमकक्षकाः । वलिमध्यगता नाभिः शूलधारां करोति हि ॥ अधो गवाढ्यं कुर्य्याच्च नृपत्वं पद्मकर्णिका । अनुद्धतैश्चुचुकैश्च भवन्ति सुभगा नराः । निर्द्धना विषमैर्दीर्घैः पीतोपचितकैर्नृपाः ॥ समोन्नतञ्च हृदयमकम्प्यं मांसलं पृथु । नृपाणामधमानाञ्च खरलोम शिरालकम् ॥ कम्बुग्रीवश्च नृपतिर्लम्बकर्णोऽतिभक्षणः । आजानुलम्बिनौ बाहू वृत्तौ पीनौ नृपेश्वरे ॥ मणिबन्धैर्निगूढैश्च सुश्निष्टशुभसन्धिभिः । नृपा हीनैः करच्छेदमशब्दैर्धनवर्ज्जिताः ॥ निस्वाश्चक्रनखैस्तद्वद्वर्णैश्च परतर्ककाः । ताम्रैर्भूपा धनाढ्याश्च अङ्गुष्ठैः सयवैस्तथा ॥ घनाङ्गुलिश्च सधनस्तिस्रो रेखाश्च यस्य वै । नृपतेः करतलगा मणिबन्धे समुत्थिताः ॥ शङ्खातपत्रशिविका गजपद्मोपमा नृपे । कुम्भाङ्कुशपताकाभा मृणालाभा निरीश्वरे ॥ दामाभाश्च गवाढ्यानां स्वस्तिकाभा नृपेश्वरे । चक्रासितोमरधनुःकुन्ताभा नृपतेः करे ॥ मांसलैश्च धनोपेता अवक्रैरधरैर्नृपाः । विम्बोपमैश्च स्फुटितैरोष्ठै रूक्षैश्च खण्डितैः ॥ विवर्णैर्धनहीनाश्च दन्ताः स्निग्धा घनाः शुभाः । तीक्ष्णा दंष्ट्राः समाः श्रेष्ठा जिह्वा रक्ता समा शुभा ॥ श्लक्ष्णा दीर्घा च विज्ञेया तालु श्वेतं धनेश्वरे । कृष्णा च परुषा वक्त्रं समं सौम्यञ्च संवृतम् ॥ भूपानाममलं श्लक्ष्णं विपरीतञ्च दुःखिनाम् । शङ्कुकर्णाश्च राजानो रोमकर्णाः शतायुषः ॥ कराः स्निग्धावनद्धैश्च व्यालम्बैर्म्मांसलैर्नृपाः । स्त्रीमृत्युश्चिपिटनास ऋज्वी भाग्यवतां भवेत् ॥ अल्पच्छिद्रा सुपुटा च अवक्रा च नृपेश्वरे । संवृतैश्च ललाटैश्च कृपणा उन्ननैर्नृपाः ॥ ललाटोपसृतास्तिस्रो रेखाः स्युः शतवर्षिणाम् । नृपत्वं स्याच्चतसृभिरायुः पञ्चनवत्यथ ॥ छत्राकारैः शिरोभिस्तु नृपा निम्नशिरा धनी । षडुन्नतश्चतुर्ह्नस्वो रक्तः सप्तस्वसौ नृपः ॥” इति गारुडे नरस्त्रीलक्षणं नाम ६६ अध्यायः ॥ अपि च । “पार्थिवस्य तु वक्ष्यामि भृत्यानाञ्चैव लक्षणम् । सर्व्वाणि यो महीपालः सम्यङ्नित्यं परीक्षयेत् ॥ राज्यं पालयते नित्यं सत्यधर्म्मपरायणः । निर्ज्जित्य परसैन्यानि क्षितिं धर्म्मेण पालयेत् ॥ पुष्पं पुष्पं विचिन्वीयान्मूलच्छेदं न कारयेत् । मालाकार इवारण्ये न यथाङ्गारकारकः ॥ दुग्धी क्षीरन्तु भुञ्जीत विक्रेतारो न भुञ्जते । परराष्ट्रं महीपालो कालव्यालांश्च दूषयेत् ॥ नोधश्छिन्द्यात्तु यो धेन्वाः क्षीरार्थी लभते पयः । एवं राष्ट्रमयोगेन पीड्यमानं न वर्द्धते ॥ तस्मात् सर्व्वप्रयत्नेन पृथिवीमनुपालयेत् । पालकस्य भवेद्भूमिः कीर्त्तिरायुर्यशो बलम् ॥ अभ्यर्च्य विष्णुं धर्म्मात्मा गोब्राह्मणहिते रतः । प्रजाः प्रालयितुं शक्तः पार्थिवो यो जितेन्द्रियः ॥ ऐश्वर्य्यमध्रुवं प्राप्य राजा धर्म्मे मतिञ्चरेत् ॥” इति गारुडे १११ अध्यायः ॥ * ॥
ब्रह्माभिषिक्तराजानो यथा, — श्रीपराशर उवाच । “यदाभिषिक्तः स पृथुः पूर्ब्बं राज्ये महर्षिभिः । ततः क्रमेण राज्यानि ददौ लोकपितामहः ॥ नक्षत्रग्रहविप्राणां वीरुधां वाप्यशेषतः । सोमं राज्ये दधाद्ब्रह्मा यज्ञानां तपसामपि ॥ राज्ञां वैश्रवणं राज्ये जलानां वरुणं तथा । आदित्यानां पतिं विष्णुं वसूनामथ पावकम् ॥ प्रजापतीनां दक्षन्तु वासवं मरुतामपि । दैत्यानां दानवानाञ्च प्रह्लादमधिपं ददौ ॥ पितॄणां धर्म्मराजानं यमं राज्येऽभ्यसेचयत् । ऐरावतं गजेन्द्राणामशेषाणां पतिं ददौ ॥ पतत्रीणाञ्च गरुडं देवानामपि वासवम् । उच्चैःश्रवसमश्वानां वृषभन्तु गवामपि ॥ शेषन्तु नागराजानं मृगाणां सिंहमीश्वरम् । वनस्पतीतां राजानं प्लक्षमेवाभ्यषेचयत् ॥ एवं विभज्य राज्यानि दिशां पालाननन्तरम् । प्रजापतिपतिर्ब्रह्मा स्थापयामास सर्व्वतः ॥ पूर्ब्बस्यां दिशि राजानं वैराजस्य प्रजापतेः । दिशःपालं सुधन्वानं पुत्त्रं वै सोऽभ्यषेचयत् ॥ दक्षिणस्यां दिशि तथा कर्द्दमस्य प्रजापतेः । पुत्त्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ॥ पश्चिमायां दिशि तथा रजसः पुत्त्रमच्युतम् । केतुमन्तं महात्मानं राजानमभिषिक्तवान् ॥ तथा हिरण्यरोमाणं पर्ज्जन्यस्य प्रजापतेः । उदीच्यां दिशि दुर्द्धर्षं राजानमभिषिक्तवान् ॥ तैरियं पृथिवी सर्व्वा सप्तद्वीपा सपत्तना । यथाप्रदेशमद्यापि धर्म्मतः प्रतिपाल्यते ॥ एते सर्व्वे प्रवृत्तस्य स्थितौ विष्णोर्म्महात्मनः । विभूतिभूता राजानो ये चान्ये मुनिसत्तम ॥ ये भविष्यन्ति येऽतीताः सर्व्वभूतेश्वरा द्विज । ते सर्व्वे सर्व्वभूतस्य विष्णोरंशा द्विजोत्तम ॥” इति श्रीविष्णुपुराणे प्रथमेऽंशे २२ अध्यायः ॥ * सूत उवाच । “एवं सृष्टासु सर्व्वासु स्थावरासु चरासु च । ब्रह्मा क्रमेण राज्यानि व्यादेशमुपचक्रमे ॥ द्विजानां वीरुधाञ्चैव नक्षत्राणां ग्रहैः सह । यज्ञानां तपसाञ्चैव सोमं राज्येऽभ्यषेचयत् ॥ बृहस्पतिञ्च सर्व्वेषां ददावङ्गिरसामपि । भृगूणामाधिपत्ये च काव्यं राज्येऽभ्यषेचयत् ॥ आदित्यानां पुनर्व्विष्णुं वसूनामथ पावकम् । प्रजापतीनां दक्षञ्च मरुतामथ वासवम् ॥ दैत्यानामथ राजानं प्रह्लादं दितिनन्दनम् । नारायणन्तु साध्यानां रुद्राणां वृषभध्वजम् ॥ मृगाणामथ शार्दूलं गरुडं पततां वरम् । गन्धर्व्वाणां चित्ररथं नागानामथ वासुकिम् ॥ गन्धानां मरुतञ्चैव भूतानाञ्च शरीरिणाम् । सर्व्वेषां दंष्ट्रिणां शेषं सर्पाणाञ्चैव तक्षकम् ॥ सागराणां नदीनाञ्च मेघानां वर्षितस्य च । आदित्यानामन्यतमं पर्ज्जन्यमभिषिक्तवान् । सर्व्वाप्सरोगणानाञ्च कामदेवं तथा प्रभुम् ॥ ऋतूनामधिमासानां दिवसानां तथैव च । पक्षाणाञ्च क्षपाणाञ्च मुहूर्त्ततिथिपर्व्वणाम् ॥ कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा । गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् ॥ प्रजापतेर्व्विरजसः पूर्व्वस्यामभिषेचयन् । पुत्त्रं नाम्ना सुधामानं राजानञ्चाभ्यषेचयत् ॥ यथाप्रदेशं राजानं दक्षिणस्यां प्रजापतेः । कर्द्दमस्य शङ्खपदं पुत्त्रं राज्येऽभिषिक्तवान् ॥ पश्चिमस्यां दिशि तथा रजसः पुत्त्रमुत्तमम् । केतुमन्तं महात्मानं राजानं ह्यभ्यषेचयत् ॥ तथा हिरण्यरोमाणं पर्ज्यन्यस्य प्रजापतेः । दिगुत्तरायां पुत्त्रन्तु राजानमभ्यषेचयत् ॥ मानुषाणामधिपतिं चक्रे वैवस्वतं मनुम् । तैरेव पृथिवी सर्व्वा सप्तद्बीपा सपत्तना । यथाप्रदेशमद्यापि धर्म्मेण परिगृह्यते ॥ स्वायम्भुवेऽन्तरे पूर्व्वं ब्रह्मणा तेऽभिषेचिताः । इन्द्रादिलोकपालास्तु पुनर्व्वैवस्वतेऽन्तरे ॥ राजसूयेऽभिषिक्तस्तु पृथुः पूर्व्वं महर्षिभिः । मनुभिंर्व्विधिना तद्बत् सोऽधिराजः प्रताप- वान् ॥” इत्याद्ये वह्निपुराणे वराहप्रादुर्भावनामाध्यायः ॥ राजकर्त्तव्यकर्म्माणि यथा, — मदालसोवाच । “वत्स ! राज्ञाभिषिक्तेन प्रजारञ्जनमादितः । कर्त्तव्यमविरोधेन स्वधर्म्मञ्च महीभृता ॥” अविरोधेन धर्म्मशास्त्राविरोधेन । “व्यसनानि परित्यज्य सप्तमूलहराणि वै । आत्मा रिपुभ्यः संरक्ष्यो वहिर्मन्त्रविनिर्गमात् ॥ अष्टधा नाशमाप्नोति स्वचक्रस्पन्दनाद्यथा । तथा राजाप्यसन्दिग्धं वहिर्मन्त्रं विनिगमात् ॥ दुष्टादुष्टांश्च जानीयादमात्यानरिदोषतः । चरैश्चरास्तथा शत्रोरन्वेष्टव्याः प्रयत्नतः ॥ विश्वासो न तु कर्त्तव्यो राज्ञा मित्रात्मबन्धुषु । कार्य्ययोगादमित्रेषु विश्वसीत नराधिपः ॥ स्थानवृद्धिक्षयज्ञेन षाड्गुण्यविदितात्मना । भवितव्यं नरेन्द्रेण न कामवशवर्त्तिना ॥ प्रागात्मा मन्त्रिणश्चैव ततो भृत्यो महीभृता । जेयाश्चानन्तरं पौरा विरुध्येत ततोऽरिभिः ॥ यस्त्वेतानविजित्यैव वैरिणो विजिगीषते । सोऽजितात्मा जितामात्यः शत्रुवर्गेण बाध्यते ॥ तस्मात् कामादयः पूर्व्वं जेयाः पुत्त्र महीभृता । तज्जये हि जयो राज्ञो राजा नश्यति तैर्जितः ॥ कामः क्रोधश्च लोभश्च मदो मानस्तथैव च । हर्षश्च शत्रवो ह्येते नाशाय कुमहीभृताम् ॥ कामप्रसक्तमात्मानं स्मृत्वा दण्डं निपातितम् । निवर्त्तयेत्तथा क्रोधादनुह्नादं हतात्मजम् ॥ हतमैलं तथा लोभान्मदाद्वेणं द्विजैर्हतम् । मानादनायुषः पुत्त्रं हतं हर्षात् पुरञ्जयम् ॥ गभिर्जितैर्जितं सर्व्वं मरुत्तेन महात्मना । स्मृत्वा विवर्ज्जयेदेतान् षड्दोषांश्च महीपतिः ॥ काककोकिलभृङ्गाणां वकव्यालशिखण्डिनाम् । हंसानां लोहकुट्टानां शिक्षेत चरितं नृपः ॥” काकात् सर्व्वशङ्किता । कोकिलात् माधुर्य्यम् । भृङ्गात् प्रपीडया अर्थादानम् । वकात् शत्रु- ग्रहणे एकाग्रताम् । व्यालात् दुरुपसर्पित्वम् । शिखण्डिनश्चित्रतां सर्पग्रहणाय मूकतां रात्रा- वात्मगोपनञ्च । हंसस्य सारग्राहित्वम् । लोह- कुट्टात् सन्धानम् ॥ “कौशिकस्य क्रियां कुर्य्याद्विपक्षे मनुजेश्वरः । चेष्टां पिपीलिकानाञ्च काले भूपः प्रदर्शयेत् ॥” कौशिकस्य उलूकस्य रात्रौ काकावस्कन्दनम् । पिपीलिकानां सेनाबहुत्वं सर्पभक्षणञ्च । “ज्ञेयाग्निविस्फुलिङ्गानां बीजचेष्टा च शाल्मलेः । चन्द्रसूर्य्यस्वरूपश्च नीत्यर्थे पृथिवीक्षिता ॥” अग्निविस्फुलिङ्गात् दूरात् दाहः । बीजान्मह- दर्थनिष्पादनम् । उष्णकाले चन्द्रः सुखदायी शीतकाले न । एवं सूर्य्यः शीते सुखदायी उष्णकाले न । एवं कालानुसारेण सुखदुःख- दातृत्वम् ॥ “वधकात् पद्मशरभशूलिन्या गुर्व्विणीस्तनात् । प्रजा नृपेण चादेया तथा चण्डालयोषितः ॥” वधकात् निर्घृणत्वम् । पद्मात् कण्टकगोपनं स्मितमुखता च । शरभात् हत्वापि शत्रून् नोद्रेकः । यथा शरभोऽष्टापदः परोन्नतिं न सहते । शूलिन्या आर्त्तिज्ञापनम् । गुर्व्विण्या स्तनात् कालेऽर्थादानम् । चण्डालयोषित् शौनकी छागशिरो दर्शयित्वा अन्यद्विक्रीणाति । “शक्रार्कयमसोमानां तद्बद्वायोर्महीपतिः । रूपाणि पञ्च कुर्व्वीत महीपालनकर्म्मणि ॥ यथेन्द्रश्चतुरो मासान् वार्य्यौघेणैव भूतलम् । आप्याययेत्तथा लोकान् परिचारैर्महीपतिः ॥” परिचारैरर्थदानादिभिः । “मासानष्टौ यथा सूर्य्यस्तोयं हरति रश्मिभिः । सूर्य्येणैवाभ्युपायेन तथा शुल्कादिना नृपः ॥ यथा यमः प्रियद्बेष्यौ प्राप्ते काले नियच्छति । तथा प्रियाप्रियौ राजा दुष्टादुष्टे समो भवेत् ॥ पूर्णेन्दुमालोक्य यथा प्रीतिमान् जायते नरः । एवं यत्र प्रजाः सर्व्वा निर्व्वृत्तास्तच्छशिव्रतम् ॥ मारुतः सर्व्वभूतेषु निगूढश्चरते यथा । एवं चरेन्नृपश्चारैः पौरामात्यारिबन्धुषु ॥ न लोभार्थैर्न कामार्थैर्नार्थार्थैर्यस्य मानसम् । पदार्थैः कृष्यते धर्म्मान् स राजा स्वर्गमृच्छति ॥” लोभादिप्रयोजनैः । “उत्पथग्राहिणो मूढान् स्वधर्म्माच्चलितान्नरान् । यः करोति निजे धर्म्म स राजा स्वर्गमृच्छति ॥” उत्पथग्राहिणः पापिनः । “वर्णधर्म्मा न सीदन्ति यस्य राष्ट्रे तथाश्रमाः । राज्ञस्तस्य सुखं तात परत्रेह च शाश्वतम् ॥ एतद्राज्ञः परं कृत्यं तथैतद्वृद्धिकारणम् । स्वधर्म्मे स्थापनं नॄणां चाल्यते न कुबुद्धिभिः ॥ पालनेनैव भृत्यानां कृतकृत्यो महीपतिः । सम्यक् पालयिता भागं धर्म्मस्याप्नोति वै यतः ॥ एवमाचरते राजा चातुर्व्वर्णस्य रक्षणैः । स सुखी विहरत्येष शक्रस्येति सलोकताम् ॥” इति मार्कण्डेयपुराणे मदालसोपाख्यानाध्यायः तट्टीका च ॥ * ॥
राजाभिषेकस्य विहित- नक्षत्राणि यथा, —
“पुष्यानुराधा ज्येष्ठा च रोहिणी चोत्तरात्रयम् । हस्ताश्विनी रेवती च नृपाभिषेचनोत्तमाः ॥” इति ज्योतिःसारसंग्रहः ॥ अस्य विवरणं अभिषेकशब्दे द्रष्टव्यम् ॥ * ॥
राज्ञि वर्णनीयानि यथा, —
“नृपे कीर्त्तिप्रतापाज्ञादुष्टशास्तिविवेकिताः । धर्म्मप्रयाणसंग्रामशस्त्राद्याः सनयक्षमाः ॥ प्रजारागोऽरिशैलादिवासोऽरिपुरशून्यता । औदार्य्यधैर्य्यगाम्भीर्य्यशौर्य्यैश्वर्य्योद्यमादयः ॥” इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥ * ॥
राजान्नभक्षणे दोषो यथा, — वाराह उवाच । “शुद्धा भागवता भूत्वा मम कर्म्मपरायणाः । ये तु भुञ्जन्ति राजान्नं लोभेन च भयेन च ॥ आपद्गता हि भुञ्जीत राजान्नन्तु वसुन्धरे । दशवर्षसहस्राणि पच्यन्ते नरके नराः ॥ भगवद्वचनं श्रुत्वा सा मही शंसितव्रता । उवाच मधुरं वाक्यं सर्व्वलोकसुखावहम् ॥ धरण्युवाच । शृणु तत्त्वेन मे देव हृदये हि व्यवस्थितम् ! को नु दोषो हि राज्ञान्तु तन्मे त्वं वक्तुमर्हसि ॥ ततो भूम्या वचः श्रुत्वा सर्व्वधर्म्मविदां वरः । प्राह नारायणो वाक्यं धर्म्मकामां वसुन्धराम् ॥ वाराह उवाच । शृणु सुन्दरि ! तत्त्वेन गुह्यमेतदनिन्दिते । राजान्नन्तु न भोक्तव्यं शुभैर्भागवतैः सदा ॥ यद्यप्येष समत्वेन राजा लोके प्रवर्त्तते । राजसस्तामसो वापि कुर्व्वन् कर्म्म सुदारुणम् ॥ अपि वा गर्हितं तेन राजान्नन्तु वसुन्धरे । धर्म्मसन्धारणार्थाय न तु मे रोचते भुवि ॥ ततोऽन्यं संप्रवक्ष्यामि तच्छणुष्व वसुन्धरे । यथा राज्ञान्तु भोज्यं वै शुद्धैर्भागवतैः शुभैः ॥ स्थापयित्वा तु मां देवि विधिदृष्टेन कर्म्मणा । धनधान्यप्रवृद्धानि दत्त्वा भागवतैरपि ॥ सिद्धं भागवतैश्चान्नं मम प्रापणशेषकम् । भुञ्जानस्तु वरारोहे न स पापेन लिप्यते ॥ एवं विष्णुवचः श्रुत्वा धरणी शंसितव्रता । वाराहरूपिणं देवं पत्युवाच वरानना ॥” * ॥
तदन्नभोजनप्रायश्चित्तानि यथा, — धरण्युवाच । “राजान्नन्तु ततो भुक्त्वा शुद्धो भागवतः शुचिः । कर्म्मणा केन शुद्ध्येत तन्मे ब्रूहि जनार्द्दन ॥ वाराह उवाच । शृणु तत्त्वेन मे देवि यन्मां त्वं भीरु भाषसे । तरन्ति मनुजा येन राजान्नस्योपभुञ्जकाः ॥ एकं चान्द्रायणं कृत्वा तप्तकृच्छ्रञ्च पुष्कलम् । कुर्य्यात् सान्तपनञ्चैकं शीघ्रं मुञ्चति किल्विषात् ॥ भुक्त्वा वै राज्ञोऽन्नानि इदं कर्म्म समारभेत् । न तस्यैवापराधोऽस्ति वसुधे वै वचो मम ॥ एवमेव न भोक्तव्यं राजान्नन्तु कदाचन । ममात्र प्रियकामाय यदीच्छेत् परमां गतिम् ॥” इत्यादि वाराहे राजान्नभक्षणप्रायश्चित्तं नामा- ध्यायः ॥ * ॥
अपि च । “राजान्नं तेज आदत्त शूद्रान्नं ब्रह्मवर्च्चसम् । इत्याद्यभिधाय, — भुक्त्वा चान्यतमस्यान्नममत्या क्षपयेत्त्र्यहम् । मत्या भुक्त्वा चरेत् कृच्छ्रं रेतो विण्मूत्रमेव च ॥” इति प्रायश्चित्ततत्त्वम् ॥ (राजनम् । यथा, ऋग्वेदे । १० । ४९ । ४ । “अहं भुवं यजमानस्य राजनि ।” “अहं यजमानस्य राजनि राजनार्थं भुवं अभवं समर्थ इति शेषः ।” इति तद्भाष्ये सायणः ॥)



Correction: