वाचस्पत्यम्
राजन्य || पु० राज्ञोऽयम् यत्, जातौ नलोपः । राज—अन्य वा । १ क्षत्रिये अमरः । २ राजपुत्रे ३ अग्नौ, उणादिको० ५ क्षीरिकावृक्षे चजटा० ।
शब्दकल्पद्रुमः
राजन्यः || पुं, (राज्ञोऽपत्यमिति । राजन् + “राजश्वशुरात् यत् ।” ४ । १ । १३७ । इति यत् ।)
क्षत्त्रियः । इत्यमरः ॥ (यथा, ऋग्वेदे । १० । ९० । १२ । “ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥”)
राजपुत्त्रः । (राजति दीप्यते इति । राज् + “राजेरन्यः ।” उणा० ३ । १०० । इति अन्यः ।)
अग्निः । इत्युणादिकोषः ॥ क्षीरिकावृक्षः । इति जटाधरः ॥