वाचस्पत्यम्
राजन्यक || न० राजन्यानां क्षत्रियाणां समूहः कन् । क्षत्रियसमूहे अमरः ।
शब्दकल्पद्रुमः
राजन्यकं || क्ली (राजन्यानां क्षत्त्रियाणां समूहः । राजन्य + “गोत्रोक्षोष्ट्रोरभ्रराजराजन्येति ।” ४ । २ । ३९ । इति वुञ् ।)
क्षत्त्रियसमूहः । इत्य- मरः ॥ (यथा, रघुः । ७ । ५६ । “रथी निषङ्गी कवची धनुष्मान् दृप्तः स राजन्यकमेकवीरः । निवारयामास महावराहः कल्पक्षयोवृत्तमिवार्णवाम्भः ॥” * ॥
राजन्यानां विषये देशे च पुं । इति काशिका ॥ अत्र “राजन्यादिभ्यो वुञ् ।” ४ । २ । ५३ । इति वुञ्प्रत्ययः ॥)