संस्कृत-शब्दकोशः

राजपुत्त्रिका राजपुत्र

राजपुत्त्री

शब्दकल्पद्रुमः

राजपुत्त्री || स्त्री (राज्ञः पुत्त्रीव ।)
कटुतुम्बी । रेणुका । जाती । राजरीतिः । छुछुन्दरी । इति राजनिर्घण्टः ॥ मालती । यथा, —
“अतिमुक्तश्चाथ जातिर्मालती सुमना अपि ॥” राजपुत्त्री मनोज्ञा — ॥” इति जटाधरः ॥ राजकन्या च ॥ (यथा, महाभारते । १ । ७३ । १ । “सुव्यक्तं राजपुत्त्री त्वं यथा कल्याणि ! भाषसे । भार्य्या मे भव शुश्रोणि ! ब्रूहि किं करवाणि ते ॥”)



Correction: