संस्कृत-शब्दकोशः

राजपुत्त्री राजपुत्री

राजपुत्र

वाचस्पत्यम्

राजपुत्र ||‍ पु० राज्ञश्चन्द्रस्य, नृपस्य वा पुत्रः । १ बुधग्रहे शब्दर० २ नृपकुमारे ३ वर्णसङ्करभेदे (रजपुत) “वैश्यादम्बष्ठकन्यायां राजपुत्रस्य सम्भवः” इति पराशरः । ४ महाराजचूत- वृक्षे राजनि० ।


शब्दकल्पद्रुमः

राजपुत्त्रः || पुं, (राज्ञश्चन्द्रस्य पुत्त्रः ।)
बुधग्रहः । इति शब्दरत्नावली ॥ महाराजचूतः । इति राजनिर्घण्टः ॥ वर्णसङ्करजातिविशेषः । रंज- पुत इति भाषा ॥ यथा, —
“वैश्यादम्बष्ठकन्यायां राजपुत्त्रस्य सम्भवः ॥” इति पराशरपद्धतिः ॥ करणकन्यायां क्षत्त्रियाज्जातश्च । इति पुरा- णम् ॥ राजनन्दनः । तत्पर्य्यायः । युवराजः २ कुमारः ३ भर्त्तृदारकः ४ । इत्यमरः ॥ (यथा, —
“राजपुत्त्र ! चिरं जीव माजीव मुनिपुत्त्रक ! । जीव वा मर वा साधो व्याध माजीव मा मर ॥” इत्युद्भटः ॥)
तस्य रक्षणं यथा, —
“राजपुत्त्रस्य रक्षा च कर्त्तव्या पृथिवीक्षिता । आचार्य्यैश्चास्य कर्त्तव्यं नित्यमुक्तैश्च रक्षणम् ॥ धर्म्मकामार्थशास्त्राणि धनुर्व्वेदञ्च शिक्षयेत् । रथे च कुञ्जरे चैनं व्यायामं कारयेत् सदा ॥ शिल्पानि शिक्षयेच्चैव नाप्तैर्मिथ्याप्रियं वदेत् ॥ गुणाधानमशक्यन्तु यस्य कर्त्तुं स्वभावतः । बन्धनं तस्य कर्त्तव्यं गुप्ते देशे सुखान्वितम् ॥ अविनीतकुमारं हि कुलमाशु विशीर्य्यते । अधिकारेषु सर्व्वेषु विनीतं हि नियोजयेत् । आदौ स्वल्पेषु तत्पश्चात् क्रमेणाथ महत्स्वपि ॥ मृगयापानमक्षांश्च वर्ज्जयेत् पृथिवीपतिः । एतान्यासेवमानास्तु विनष्टाः पृथिवीक्षितः ॥ बहवो नृपशार्दू ला येषां संख्या न विद्यते ॥ वृथाटनदिवास्वप्नं विशेषेण विवर्ज्जयेत् । वाक्पारुष्यं न कर्त्तव्यं दण्डपारुष्यमेव च ॥ परोक्षनिन्दा च तथा वर्ज्जनीया महीक्षिता । अर्थस्य दूषणं राजा द्बिःप्रकारं विवर्ज्जयेत् ॥ अर्थानां दूषणञ्चैव तथा चार्थेषु दूषणम् । अकारणात् समुच्छेदं दुर्गादीनामसत्क्रिया ॥ अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च । अदेशकाले यद्दानमपात्रे दानमेव च ॥ अर्थस्य दूषणं प्रोक्तमसत्कर्म्मप्रवर्त्तनम् । कामं क्रोधं मदं मानं लोभं हर्षन्तथैव च । जेतव्यमरिषड्वर्गं सादरं पृथिवीक्षिता ॥ एतेषां विजयं कृत्वा कार्य्यं भृत्यजयं ततः । कृत्वा भृत्यजयं सर्व्वं राजा जनपदं जयेत् ॥ कृत्वा तु विजयं तेषां शत्रून् बाह्यांस्ततो जयेत् । बाह्याश्च त्रिविधा ज्ञेयास्तुल्याभ्यन्तरकृत्रिमाः ॥ गुरवस्ते यथापूर्ब्बं तेषु यत्नपरो भवेत् । पितृपैतामहं मित्रममित्रञ्च तथा रिपोः ॥ कृत्रिमञ्च महाभाग मित्रं त्रिविधमुच्यते । तथापि च गुरुः पूर्ब्बं भवेत्तत्रापि चादृतः ॥ स्वाम्यमात्यो जनपदो दुर्गं सैन्यन्तथैव च । कोषो मित्रञ्च धर्म्मज्ञ सप्ताङ्गं राज्यमुच्यते ॥ सप्ताङ्गस्यापि राज्यस्य मूलं स्वामी प्रकीर्त्तितः । तन्मूलत्वात्तथाङ्गानां राजा रक्ष्यः प्रयत्नतः । षडङ्गरक्षा कर्त्तव्या तथा तेन प्रयत्नतः ॥ अङ्गेभ्यो यस्तथैकस्य द्रोहमाचरतेऽल्पधीः । वधस्तस्य तु कर्त्तव्यः शीघ्रमेव महीक्षिता ॥ न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते । न भाव्यं दारुणेनापि तीक्ष्णादुद्विजते जनः ॥ काले मृदुर्यो भवति काले भवति दारुणः । राजा लोकद्वयापेक्षी तस्य लोकद्वयं भवेत् ॥ भृत्यैः सह महीपालः परिहासं विवर्ज्जयेत् । भृत्याः परिभवन्तीह नृपं हर्षवशं गतम् ॥ व्यसनानि च सर्व्वाणि भूपतिः परिवर्ज्जयेत् । लोकसंग्रहणार्थाय कृतकव्यसनो भवेत् ॥ शौटीरस्य नरेन्द्रस्य नित्यमुद्रिक्तचेतसः । जना विरागमायान्ति सदा दुःसेव्यभावतः ॥ स्मितपूर्ब्बाभिभाषी स्यात् सर्व्वस्यैव महीपतिः । वध्येष्वपि महाभाग भ्रुकुटीं न समाचरेत् ॥ भाव्यं धर्म्मभृतां श्रेष्ठ स्थूललक्ष्येण भूभुजा । स्थूललक्ष्यस्य वशगा सर्व्वा भवति मेदिनी ॥ अदीर्घसूत्रश्च भवेत् सर्व्वकर्म्मसु पार्थिवः । दीर्घसूत्रस्य नृपतेः कर्म्महानिर्ध्रुवं भवेत् ॥ रागे द्वेषे च कामे च द्रोहे पापे च कर्म्मणि । अप्रिये चैव कर्त्तव्ये दीर्घसूत्रः प्रशस्यते ॥ राज्ञा संवृतमन्त्रेण सदा भाव्यं द्विजोत्तम । तस्यासंवृतमन्त्रस्य ज्ञेयाः सर्व्वापदो ध्रुवाः ॥ कृतान्धेव तु कर्म्माणि जायन्ते यस्य भूपतेः । नारब्धानि महाभाग तस्य स्वाद्बसुधा वशे ॥ मन्त्रमूलं सदा राज्यं तस्मान्मन्त्रं सुरक्षितम् । कर्त्तव्यं पृथिवीपालैर्मन्त्रभेदभयात् सदा ॥ मन्त्रवित् साधितो मन्त्रः संयतानां सुखावहः । मन्त्रच्छलेन बहवो विनष्टाः पृथिवीक्षितः ॥ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ नयस्य कुशलस्तस्य वशे सर्व्वा वसुन्धरा । भवतीह महीभर्त्तुः सदा पार्थिननन्दन ॥ नैकस्तु मन्त्रयेन्मन्त्रं न राजा बहुभिः सह । नारोहेद्विषमां नावं नापरीक्षितनाविकाम् ॥ ये चास्य भूमिं जयतो भवेयुः परिपन्थिनः । तानानयेद्वशे सर्व्वान् सामादिभिरुपक्रमैः ॥ यथा न स्यात् कृषीभावः प्रजानामनपेक्षया । तथा राज्ञा प्रकर्त्तव्यं स्वराष्ट्रपरिरक्षता ॥ मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनपेक्षया । सोऽचिराद्भ्रश्यते राज्यात् जीविताच्च सबा- न्धवः ॥ भृतो वत्सो जातबलः कर्म्मयोग्यो यथा भवेत् । तथा राष्ट्रं महाभाग भृतं कर्म्मसहं भवेत् ॥ यो राष्ट्रमनुगृह्णाति राज्यं स्वं परिरक्षति । संघातमुपयाचेत्तु विन्दते स महत् फलम् ॥ राष्ट्राद्धिरण्यं धान्यञ्च महीं राजा सुरक्षिताम् । महता तु प्रयत्नेन स्वराष्ट्रस्य च रक्षिता ॥ नित्यं स्वेभ्यः परेभ्यश्च यथा माता यथा पिता । गोपितानि सदा कुर्य्यात् स विभागी प्रियाणि च ॥ अजस्रमुपयोक्तव्यं फलं तेभ्यस्तथैव च । धर्म्मकर्म्मेदमायत्तं विधाने दैवमानुषे । तयोर्दैवमचिन्त्यं हि पौरुषे विद्यते क्रिया ॥ एवं महीं पालयतोऽस्य भर्त्तु- र्लोकानुरागः परमो भवेच्च । लोकानुरागप्रभवा च लक्ष्मी- र्लक्ष्मीवतश्चैव परा च कीर्त्तिः ॥” इति मात्स्ये २०० अध्यायः ॥



Correction: