वाचस्पत्यम्
राजपुष्प || पु० राजा चन्द्र इव शुभ्रत्वात् पुष्पमस्य । नागके- सरवृक्षे शब्दच० । २ करुणीवृक्षे स्त्री राजनि० ङीप् ।
शब्दकल्पद्रुमः
राजपुष्पः || पुं, (पुष्पाणां राजा । राजदन्तादित्वात् परनिपातः ।)
नागकेशरपुष्पवृक्षः । यथा, —
“चाम्पेयः केशरो नागकेशरः कनकाह्वयः । महौषधं राजपुष्पः फलकः खरघातनः ॥” इति शब्दचन्द्रिका ॥