वाचस्पत्यम्
राजभद्रक || पु० राज्ञो भद्रं यस्मात् कप् । १ कुष्ठे (कुड) २ निम्बे च राजनि० ३ पारिभद्रवृक्षे धातुपा० ।
शब्दकल्पद्रुमः
राजभद्रकः || पुं, कुष्ठम् । निम्बः । इति राज- निर्घण्टः ॥ पारिभद्रकः । इति साधुपाठः ॥