वाचस्पत्यम्
राजभूय || न० राज्ञो भावः राजन् + भू—क्यप् । राज्ञोऽसाधा- रणधर्मे राजत्वे ।
शब्दकल्पद्रुमः
राजभूयं || क्ली (राज्ञो भावः । राजन् + भू + क्यप् ।)
राजत्वम् । यथा, —
“स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि । देवभूयादिकं तद्वत् ।” इत्यमरकोषदर्शनात् ॥