संस्कृत-शब्दकोशः

राजमार्ग राजमुद्ग

राजमाष

वाचस्पत्यम्

राजमाष ||‍ पु० माषेषु कलायेषु राजा श्रेष्ठत्वात् राजद० पर० । १ माषभेदे हेमच० । (वरवटी) २ व्रीहिभेदे राजनि० ।


शब्दकल्पद्रुमः

राजमाषः || पुं, (माषाणां राजा श्रेष्ठत्वात् । राजदन्तादित्वात् परनिपातः ।)
वर्व्वटः । वरवटी कडाइ इति भाषा । तत्पर्य्यायः । नीलमाषः २ नृपमाषः ३ नृपोचितः ४ । अस्य गुणाः । कफपित्तहरत्वम् । रुच्यत्वम् । वात- कारित्वम् । बलदायकत्वञ्च । इति राज- निर्घण्टः ॥ सारकत्वम् । शुक्राम्लपित्तहरत्वम् । सुस्वादुत्वम् । रूक्षत्वम् । कषायत्वम् । विषदत्वम् । लघुत्वञ्च । इति राजवल्लभः ॥ अन्यच्च । “राजमाषो महामाषश्चपलश्च बलः स्मृतः । राजमाषो गुरुः स्वादुस्तुवरस्तर्पणो रसः । रूक्षो वातकरो रुच्यः स्तन्यो भूरिमलप्रदः ॥” इति भावप्रकाशः ॥ * ॥
कालविशेषे अस्याभक्षत्वं यथा । नारदीये । “निष्पावान् राजमाषांश्च सुप्ते देवे जनार्द्दने । यो भक्षयति राजेन्द्र चाण्डालादधिको हि सः ॥ कार्त्तिके तु विशेषेण राजमाषांश्च वर्ज्जयेत् । निष्पावान् मुनिशार्द्दूल यावदाहूतनारकी ॥” इति तिथ्यादितत्त्वम् ॥



Correction: