संस्कृत-शब्दकोशः

राजमुद्ग राजयोग्य

राजयक्ष्मन्

वाचस्पत्यम्

राजयक्ष्मन् is an alternate of राजजक्ष्मन्. राजज(य)क्ष्मन् ||‍ पु० राज्ञः चन्द्रस्य क्षयकारको ज(य)क्ष्मा । रोगभेदे यक्ष्मन्शब्दे दृश्यम् “राज(य)क्ष्मेव रोगाणाम्” माघः ।


शब्दकल्पद्रुमः

राजयक्ष्मा || [न्] पुं, (राज्ञश्चन्द्रस्य क्षयकारको यक्ष्मा । राजा चासौ यक्ष्मा चेति वा ।)
क्षयरोगः । इति हेमचन्द्रः ॥ अस्य पर्य्याय- निदानौषधादयो यक्ष्मशब्दे द्रष्टव्याः ॥ * ॥
(असौ हि सर्व्वरोगाणामाकरः । यथा, माघे । २ । ९६ । “मावेदि यदसावेको जेतव्यश्चेदिराडिति । राजयक्ष्मेव रोगाणां समूहः स महीभृताम् ॥” “तथाह वाग्भटः । अनेकरोगानुगतो बहुरोगपुरःसरः । राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः ॥ नक्षत्राणां द्विजानाञ्च राज्ञोऽभूत् यदयं पुरा । यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ॥” इति तट्टीकायां मल्लिनाथः ॥)
महापातकजचिह्नमप्ययम् । यथा, विष्णुः । अथ नरकानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानां मानुष्ये लक्षणानि भवन्ति । कुष्ठ्यतिपातकी ब्रह्महा यक्ष्मी सुरापः श्यावदन्तकः सुवर्ण- हारी कुनखी गुरुतल्पगो दुश्चर्म्मा । इत्यादि कूर्म्मपुराणम् ॥ “क्रियाहीनस्य मूर्खस्य महारोगिण एव च । यथेष्टाचरणस्याहुर्मरणान्तमशौचकम् ॥” महारोगिणः पापरोगाष्टकान्यतमरोगवतः । ते च उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासो मधु- मेहो भगन्दरः उदरोऽश्मरी इत्यष्टौ पाप- रोगा नारदोक्ताः । इति शुद्धितत्त्वम् ॥ * ॥
तस्योत्पत्तिरूपस्थानानि यथा, —
“अथ कोपवतस्तस्य दक्षस्य सुमहात्मनः । निश्चक्राम तदा यक्ष्मा नासिकाग्राद्विभीषणः ॥ दंष्ट्राकरालवदनः कृष्णाङ्गारसमप्रभः । अतिदीर्घः स्वल्पकेशः कृशो धमनिसन्ततः ॥ अधोमुखो दण्डहस्तः कासं विश्रम्य सन्ततम् । कुर्व्वाणो निम्ननेत्रश्च योषासम्भोगलोलुपः ॥ स चोवाच तदा दक्षं कुत्र स्थास्याम्यहं मुने ! । किंवा चाहं करिष्यामि तन्मे वद महामते ॥ ततो दक्षस्तु तं प्राह सोमं यातु द्रुतं भवान् । सोममत्तु भवान्नित्यं सोमे त्वं तिष्ठ स्वेच्छया ॥ मार्कण्डेय उवाच । इति तस्य वचः श्रुत्वा दक्षस्याथ महात्मनः । शनैः शनैस्ततः सोममाससाद स च द्रुतम् ॥ असाद्य स तदा सोमं वल्मीकं पन्नगो यथा । प्रविवेशेन्दुहृदये छिद्रं प्राप्य महागदः ॥ तस्मिन् प्रविष्टे हृदये दारुणे राजयक्ष्मणि । शुशोच चन्द्रस्तन्द्रीञ्च विषमां प्राप्तवांस्ततः ॥ उत्पत्य प्रथमं यस्माल्लीनो राजन्यसौ गदः । राजयक्ष्मेति लोकेऽस्मिंस्तस्य ख्यातिरभूत् द्विजाः ॥ ततस्तेनाभिभूतश्च यक्ष्मणा रोहिणीपतिः । क्षयं जगामानुदिनं ग्रीष्मे शुष्का नदी यथा ॥ तथा चन्द्रे क्षीयमाणे सर्व्वौषध्यः क्षयं गताः । क्षयं जातास्वोषधीषु न यज्ञः संप्रवर्त्तते ॥ यज्ञाभावात्तु देवानामन्नं सर्व्वं क्षयं गतम् । पर्य्यण्याश्च ततो नष्टास्ततो वृष्टिर्न चाभवत् । वृष्ट्यभावे तु लोकानामाहारो क्षीणताङ्गतः ॥ दुर्भिक्षव्यसनोपेते सर्व्वलोके द्विजोत्तमाः । दानधर्म्मादिकं किञ्चिन्न लोकेषु प्रवर्त्तते ॥ सत्त्वहीनाः प्रजाः सर्व्वा लोभेनोपहतेन्द्रियाः । पापमेव तदा चक्रुर्न धर्म्मरुचयस्तथा ॥ एतद्दृष्ट्वा तदा भावं दिक्पालाः सपुरन्दराः । जग्मुः क्षोभं परं देवाः सागराश्च ग्रहास्तथा ॥ ततो दृष्ट्वा जगत् सर्व्वं व्याकुलं दस्युपीडितम् । ब्रह्माणमगमन्देवाः सर्व्वे शक्रपुरोगमाः ॥ उपसङ्गम्य लोकेशं स्रष्टारं जगतां पतिम् । प्रणम्याथ यथायोग्यमुपविष्टास्ततः सुराः ॥ तान् म्लानवदनान् वीक्ष्य ब्रह्मा लोकपितामहः । अभिभूतान् परेणैव हृतस्वविषयानिव । पप्रच्छ सुमुखीकृत्य गुरुमिन्द्रं हुताशनम् ॥ ब्रह्मोवाच । स्वागतं भोः सुरगणाः किमर्थं यूयमागताः । दुःखोपहतदेहांश्च युष्मान् म्लानांश्च लक्षये ॥ निराधारान् निरातङ्कान् सुरान् सर्व्वांस्तु कामगान् । कृत्वा स्वविषये न्यस्तान् कथं पश्यामि दुष्खि- तान् ॥ यद्बभूवे दुष्खबीजं युष्मान् वा यस्तु बाधते । तत् कथ्यतामशेषेण सिद्धिं चाप्यवधार्य्यताम् ॥ मार्कण्डेय उवाच । ततो वृद्धश्रवा जीवः कृष्णवर्त्मा च लोककृत् । उवाचात्मभुवे तस्मै सुराणां दुष्खकारणम् ॥ शृणु सर्व्वं जगत्कर्त्तस्त्वां येन वयमागताः । यदस्माकं दुःखबीजं यतो म्लानश्रियो वयम् । न क्वचित् संप्रवर्त्तन्ते यज्ञा लोकपितामह ॥ देवा ऊचुः । निराधारा तिरातङ्काः प्रजाः सर्व्वाः क्षयं गताः । न च दानादिधर्म्माश्च न तपांसि क्षितौ क्वचित् ॥ नैव वर्षति पर्य्यण्यः क्षीणतोयाभवत् क्षितिः । क्षीणाः सर्व्वास्तथौषध्यः शस्या लोकाः समा- कुलाः ॥ दस्युभिः पीडिता विप्रा वेदवादान्न कुर्व्वते । अन्नवैकल्यमासाद्य म्रियन्ते बहवः प्रजाः ॥ क्षीणेषु यज्ञभागेषु भोगहीनास्तथा वयम् । दुर्ब्बलाश्च श्रिया हीना नैव शान्तिं लभामहे ॥ रोहिण्या मन्दिरे चन्द्रो वक्रगत्या चिरं स्थितः । वृषराशौ स च क्षीणो ज्योत्स्नाहीनश्च वर्त्तते ॥ यदैवान्विष्यते देवैश्चन्द्रो नैषां पुरःसरः । कदाचिदपि देवानां समाजे वा भवद्विधे ॥ कदाचिद्रोहिणीं त्यक्त्वा नैव क्व च न गच्छति । यद्यन्यः कोऽपि न भवेत्तदा चन्द्रो बहिर्भवेत् । दृश्यते स कलाहीनः कलामात्रावशेषितः ॥ इति सर्व्वत्र लोकेश वृत्तः कर्म्मविपर्य्ययः । तं दृष्ट्वा कान्दिशीकास्तु वयं त्वां शरणं गताः ॥ पातालाद्यावदुत्थाय कालकञ्जादयोऽसुराः । नास्मान् लोकेषु बाधन्ते तावन्नः पाहि साध्व- सात् ॥ स्वयं प्रवर्त्तते कस्माज्जगतां वा व्यतिक्रमः । न जानीमस्तु तत् सर्व्वं विप्लवे चापि कारणम् ॥ मार्कण्डेय उवाच । एतत् सुराणां वचनं दिव्यदर्शी पितामहः । श्रुत्वा क्षणमभिध्याय निजगाद सुरोत्तमान् ॥ ब्रह्मोवाच । शृण्वन्तु देवताः सर्व्वा यदर्थं लोकविप्लवः । प्रवर्त्ततेऽधुना येन शान्तिस्तस्य भविष्यति ॥ सोमो दाक्षायणीः कन्याः सप्तविंशतिसंख्यया । अश्विन्याद्या वरबधूर्भार्य्यार्थे परिणीतवान् ॥ परिणीय स ताः सर्व्वा रोहिण्यां सततं विधुः । प्रवर्त्तेतानुरागेण न सर्व्वासु प्रवर्त्तते ॥ अश्विन्याद्यास्ततः सर्व्वा दौर्भाग्यज्वरपीडिताः । षड्विंशतिर्वरारोहाः पितरं प्रस्थिताः स्वकम् ॥ प्रवर्त्तते निशानाथो रोहिण्यां रागतो यथा । तथा न तासु भजते तद्दक्षाय न्यवेदयन् ॥ अतो दक्षो महाबुद्धिः साम्ना संस्तूय विट्- पतिम् । बहुसूनृतमाभाष्य पुत्त्र्यर्थेऽनुरुरोध तम् ॥ अनुरुद्धो यथाकामं दक्षेण सुमहात्मना । समं प्रवर्त्तितं तासु समयं कृतवान् विधुः ॥ सममङ्गीकृते भावं तासु कर्त्तुं हिमांशुना । स्वं जगाम ततः स्थानं दक्षोऽपि मुनिसत्तमः ॥ गते दक्षे मुनिश्रेष्ठे वैषम्यं तासु चन्द्रमाः । जहौ न भावं ताः शश्वत् कुपिताः पितरं गताः ॥ ततो दक्षः पुनश्चन्द्रमनुरुध्य सुतान्तरे । समवृत्तिं प्रतिश्राव्य वचनञ्चेदमब्रवीत् ॥ न समं वर्त्तते चन्द्र सर्व्वास्वासु भवान् यदि । तदा शप्स्ये त्वहं तुभ्यं तस्माद् कुरु समञ्ज- सम् ॥ ततो गते पुनर्द्दक्षे न समं वर्त्तते यदा । तासु चन्द्रस्तदा दक्षं पुनर्गत्वाब्रुवन् रुषा ॥ न ते वचः स कुरुते नैवास्मासु प्रवर्त्तते । वयं तपः करिष्यामः स्थास्यामश्च त्वदन्तिके ॥ तासामिति वचः श्रुत्वा कुपितस्य तदा मुनेः । क्षयाय चन्द्रस्य मनः शापायोत्सुकतां गतम् ॥ शापायोद्युक्तमनसः कुपितस्य महात्मनः । क्षयो नाम महारोगो नासिकाग्राद्विनिर्गतः ॥ प्रेषितः स च चन्द्राय दक्षेण मुनिना ततः । प्रविष्टवांस्तस्य देहे क्षयितस्तेन चन्द्रमाः ॥ क्षीणे चन्द्रे क्षयं याता ज्योत्स्रा तस्य महा- त्मनः । क्षीणासु सर्व्वज्योत्स्नासु सर्व्वौषध्यः क्षयं गताः ॥ ओषध्यभावाल्लोकेऽस्मिन्न यज्ञः संप्रवर्त्तते । यज्ञाभावादनावृष्टिस्ततः सर्व्वप्रजाक्षयः ॥ यज्ञभागोपभोगेन हीनानां भवतां तथा । दुर्ब्बलत्वं ससुत्पन्नं विकारश्च स्वगोचरे ॥ इति वः कथितं सर्व्वं यथाभूल्लोकपिप्लवः । येनोपायेन तच्छान्तिस्तत्शृणुध्वं सुरोत्तमाः ॥” इति कालिकापुराणे २० अध्यायः ॥ * ॥
ब्रह्मोवाच । “गच्छन्तु भोः सुरगणा दक्षस्य सदनं प्रति । तं प्रसादय चन्द्रार्थे स च पूर्णो भवेद्यथा ॥ पूर्णे चन्द्रे जगत् सर्व्वं प्रकृतिस्थं भविष्यति । युष्माकञ्च भवेत् शान्तिरोषधीनाञ्च सम्भवः ॥ मार्कण्डेय उवाच । इति ब्रह्मवचः श्रुत्वा देवाः शक्रपुरोगमाः । प्रययुर्हृष्टमनसस्तदा दक्षनिवेशनम् ॥ यथान्यायमुपस्थाय सर्व्वे मुनिवरं सुराः । प्रोचुः प्रजापतिं दक्षं प्रणम्य श्लक्ष्णया गिरा ॥ देवा ऊचुः । प्रसीद सीदतां ब्रह्मन्नस्माकं बहुदुःखिनाम् । उद्धरस्व महाबुद्धे त्राहि नः शोकसागरात् ॥ यद्रूपं ब्रह्मसंज्ञन्तु सृष्टिकृत्परमात्मनः । तदंशस्त्वं परं ज्योतिर्विश्वरूपं नतोऽस्मि ते ॥ दक्षणात् सर्व्वजगतां प्रजापालनकारणात् । दक्षप्रजापतिश्चेति योगेशस्तन्नुमो वयम् ॥ दक्षाय सर्व्वजगतां दक्षाय कुशलात्मनाम् । दक्षायात्महितायाशु नमस्तुभ्यं महात्मने ॥ सततं चिन्त्यमानस्य योगिभिर्नियतात्मभिः । सारस्य सारभूतस्त्वं दक्षाय परमात्मने ॥ योगविद्भिरनाधृष्टः पारगाणां परायणः । आद्यन्तमुक्तः सहसा तस्मै नित्यं नमो नमः ॥ इति तेषां वचः श्रुत्वा दक्षो यज्ञभुजां तदा । प्राह प्रसन्नवदनः शक्रमाभाष्य मुख्यतः ॥ दक्ष उवाच । कुतः शक्र महाभाग भवतां दुःखमागतम् । दुःखहेतुं वद विभो श्रोतुमिच्छाम्यहन्तु तम् ॥ ममास्ति यदि कर्त्तव्यं भवतां दुःखहानये । तदहं यदि शक्नोमि करिष्यामि हितं समम् ॥ मार्कण्डेय उवाच । तत् श्रुत्वा वचनं तस्य ब्रह्मसूनोर्महर्षिणः । जगाद गीष्पतिः शक्रो वीतिहोत्रोऽथ तं मुनिम् ॥ क्षयं यातो निशानाथस्तस्मिन् क्षीणे क्षयंगताः । सर्व्वौषध्यो द्बिजश्रेष्ठ तद्धानिर्यज्ञहानिकृत् ॥ यज्ञे विनष्टे सकलाः प्रजाः क्षुद्भयकातराः । वृष्ट्यभावान्महद्दुःखं प्राप्य नष्टाश्च काश्चन ॥ क्षयोऽयं रात्रिनाथस्य यस्ते कोपात् प्रवर्त्तते । स सर्व्वजगतो ब्रह्मन्नभवार्थमुपस्थितः ॥ नाधुना तत्त्रिभुवने यन्न क्षुब्धन्तु किञ्चन । विप्लवं यान्ति विप्रेन्द्र सागराः स्थावराश्चराः ॥ न यज्ञाः संप्रवर्त्तन्ते न तपस्यन्ति तापसाः । आहारदुःखान्निन्द्रीकाः प्रजाः क्षीणा भया- तुराः ॥ एवं प्रवृत्ते विप्रेन्द्र विप्लवेऽस्मान् रसातलात् । दैत्या न यावदुत्थाय बाधन्ते तावदुद्धर ॥ प्रसीद दक्ष सततं तं पूरय तपीबलात् । पूर्णे चन्द्रे जगत् सर्व्वं प्रकृतिस्थं भविष्यति ॥ मार्कण्डेय उवाच । इति तेषां वचः श्रुत्वा प्रजापतिसुतस्तदा । उवाच तान् सुरगणान् हृदयाच्छल्यमुद्धरन् ॥ दक्ष उवाच । यन्मे वचो निशानाथे प्रवृत्तं शापकारणम् । न केनापि निदानेन मिथ्यां कर्त्तुं तदुत्सहे ॥ किन्तु मद्बचनं यस्मान्नैकान्तेन मृषा भवेत् । चन्द्रोऽपि वर्द्धते यस्मात् तमुपायमपेक्षते ॥ तत्राप्ययमुपायोऽस्ति मासार्द्धं यातु चन्द्रमाः । क्षयं वृद्धिञ्च मासार्द्धं स्वयं भार्य्यासु वर्द्धताम् ॥ तस्य तद्वचनं श्रुत्वा तं प्रसाद्य प्रजापतिम् । सर्व्वे सुरगणास्तत्र गता यत्रास्ति चन्द्रमाः ॥ एवमुक्ते तु वचने दक्षेण मुनिना द्विजाः । अथ चन्द्रं समादाय भार्य्याभिः सहितं तदा । जग्मुस्ते ब्रह्मसदनं मुदिताः सुरसत्तमाः ॥ तत्र गत्वा महाभागा यथा दक्षेण भाषितम् । तत्सर्व्वं कथयामासुर्ब्रह्मणे परमात्मने ॥ ब्रह्मा दक्षवचः श्रुत्वा देवानां सदनं तदा । चन्द्रभागं महाशैलं जगाम सहितः सुरैः ॥ तत्र गत्वा सुरश्रेष्ठः प्रजानां हितकाम्यया । स्नापयामास शुभ्रांशुं बृहल्लोहितपुष्करे ॥ भूतभव्यभवज्ज्ञानः पूर्ब्बमेव पितामहः । एतदर्थं चकारात्र सरः पूर्णं जगत्प्रभुः ॥ तत्र स्नातस्य लोकस्य नीरोगत्वं प्रजायते । चिरायुस्त्वञ्च सततं बृहल्लोहितसंज्ञके ॥ तत्र स्नातस्य चन्द्रस्य शरीरात् तत्क्षणं गदः । राजयक्ष्मा निःससार पूर्व्वरूपो यथोदितः ॥ निःसृत्य राजयक्ष्मा तु ब्रह्माणञ्च जगत्पतिम् । प्रणम्याहं किं करिष्ये क्व गच्छामीत्युवाच ह ॥ स्थानं पत्नीञ्च लोकेश ! कृत्यं मम सदातनम् । निदेशयानुरूपं मे स्रष्टा त्वं जगतां यतः ॥ मार्कण्डेय उवाच । ततो ब्रह्मापि तं पुष्टं निरीक्ष्येन्दुशरीरगैः । अमृतैस्तेनातिभुक्तैः क्षीणञ्चापि निशापतिम् ॥ दोर्भिः स्वयं तं गृहीत्वा गिरौ निष्पिष्य वै मुहुः । अमृतं गालयामास शरीराद्राजयक्ष्मणः ॥ अमृतानि च गाल्याशु तदपूतं तदा जले । क्षीरोदस्य च चिक्षेप मध्ये रहसि लोकभृत् ॥ तस्मादप्यमृतादिन्दोः कलाः क्षीणाः पुराथ याः । तासां जग्राह लवशश्चूर्णान् क्षीरोदसागरात् ॥ कलामात्रावशेषस्य संसर्गाद्राजयक्ष्मणः । क्षीणाः कलाः पञ्चदश याः पूर्व्वममृतात्मिकाः । ता रागयक्ष्मगर्भस्थाश्चूर्णीभूतास्तु पीडया ॥ तेजोज्योत्स्नाकलाभिस्तु निबद्वं यत् कला- पतेः । शरीरं तत्त्रिधाभूतं गर्भस्थं राजयक्ष्मणः ॥ ज्योतिश्चूर्णमभूत् ज्योत्स्ना लीना राजादि- यक्ष्मणि । द्रवीभूताः सुधाः सर्व्वा गर्भे रोगस्य च स्थिताः ॥ यदा निर्गालयामास सुधां ब्रह्मा गदान्तरात् । तदा ज्योत्स्ना सुधा ज्योतिः सर्व्वं तस्माद्- वहिर्गतम् ॥ क्षीरोदसागरे क्षिप्तं तत्सर्व्वं विधिना तदा । देवान् गिरौ परित्यज्य स्वयं गत्वा द्रुतं ततः ॥ ततोऽमृतानि प्रक्षाल्य कलाचूर्णानि वारिधेः । ज्योत्स्नाञ्चाप्याजगामाशु गृहीत्वा तत्त्रयं गिरिम् ॥ क्षीरोदाद्गिरिमागम्य चन्द्रभागं तदा विधिः । देवमध्ये कलाचूर्णं सुधां ज्योत्स्नां न्यवीविशत् ॥ संस्थाप्य तत्त्रयं ब्रह्मा देवानां मध्यतस्ततः । जगाद राजयक्ष्माणं तत्स्थानादि निदेशयन् ॥ ब्रह्मोवाच । सर्व्वदा यो दिवा रात्रौ सन्ध्यायां वनितारतः । सेवते सुरतं तस्मिन् राजयक्ष्मन् वसिष्यसि ॥ प्रतिश्यायश्वासकासयुक्तो यो मैथुनं चरेत् । स ते प्रवेश्यः सततं श्लेष्मणश्च तथाविधः ॥ कृष्णाख्या मृत्युपुत्त्री या भवतः सदृशी गुणैः । सा तेऽस्तु भार्य्या सततं भवन्तमनुयास्यति ॥ क्षीणत्वं भवतः कृत्यं ततस्त्वं विषये कुरु । द्रुतं गच्छ यथाकामं चन्द्रे त्वं विमुखो भव ॥ मार्कण्डेय उवाच । एवं विसृष्टो विधिना राजयक्ष्मा महागदः । पश्यतां सर्व्वदेवानामन्तर्द्धानं जगाम ह ॥ अन्तर्हिते महारोगे ब्रह्मा लोकपितामहः । चन्द्रं समग्रयामास कलापञ्चदशैधितम् ॥ तेन क्षीरोदधौतेन सुधापूगेन वात्मभूः । सज्योत्स्नैस्तु कलाचूर्णैः पूर्व्ववच्चाकरोद्विधुम् ॥ स षोडशकलापूर्णः पूर्व्ववद्विबभौ यदा । चन्द्रस्तदा सर्व्वदेवा मुमुदुस्तस्य दर्शनात् ॥ अथ चन्द्रस्तदा पूर्णः प्रणिपत्य पितामहम् ॥ उवाचेदं सुरसदो मध्यगो नातिहर्षितः ॥ सोम उवाच । न स्थानं पूर्व्ववद्ब्रह्मन् शरीरे मम वर्त्तते । न वीर्य्यं वा तथोत्साहो विसीदन्त्यङ्गसन्धयः ॥ नोत्सहे पूर्व्ववच्चेष्टां विधातुं सुतरामहम् । चेष्टाहीनस्त्वनुदिनं वर्त्तेयं केन लोकभृत् ॥ ब्रह्मोवाच । ग्रस्तस्य यक्ष्मणा सोम यदभूदङ्गसन्धयः । पूर्व्वं विशीर्णा भवतस्तत्पूर्णमभवन्न हि ॥ अधुना भवतो देहचूर्णं निःसारितं मया । शरीरात् सामृतज्योत्स्ना अञ्जसा राज- यक्ष्मणः ॥ तेषां प्रक्षालनविधौ लवशो यत् स्थितं जले । ज्योत्स्नायाश्च सुधायाश्च तेन हीनो भवान् यतः । ततोऽङ्गसन्धयो राजंस्तव सीदन्ति साम्प्रतम् ॥ अत्रोपायं विधास्यामि यथा नार्त्तिं लभेद्भवान् । प्राजापत्यः पुरोडाशो हवनीयः पुरोऽध्वरे ॥ ऐन्द्रस्ततोऽनु चाग्नेयः प्रदेयः सर्व्वतः क्रतौ । ततोऽनु भवतो भागः पुरोडाशो मया कृतः ॥ तेन भागेन भुक्तेन नित्यं यज्ञहुतेन हि । पूर्ब्बवत्ते समुत्साहः स्थानं वीर्य्यं भविष्यति ॥ यश्चामृतकणास्तोये क्षीरोदस्य स्थितास्तव । शरीरचूर्णं यावत्ते ज्योत्स्नायाश्चापि ये कणाः । वृद्धिं यास्यन्ति सततं क्षीरसागरमध्यगाः ॥ स्वारोचिषेऽन्तरे प्राप्ते द्वितीये शङ्करांशजः । दुर्व्वासा भविता विप्रः प्रचण्डश्चण्डभास्वरः ॥ स महेन्द्रस्याविनयात् शापं दत्त्वा सुदारुणम् । करिष्यति त्रिभुवनं निःश्रीकं ससुरासुरम् ॥ श्रिया हीने ततो लोके भविता लोकविप्लवः । यथा तव क्षयात् सोम प्रवृत्तो लोकविप्लवः ॥ तन्मानुषप्रमाणेन तृतीये तु कृते युगे । भविष्यति स्थास्यति च यावद्युगचतुष्टयम् ॥ ततश्चतुर्थे सम्प्राप्ते सह देवैः कृते युगे । क्षीरोदं निर्म्मथिष्यामः शम्भुर्विष्णुरहं तथा ॥ मन्थानं मन्दरं कृत्वा सर्पराजं तथांशुकम् ॥ यज्ञभागेषु हीनेषु देवान्नार्थं वयं ततः । मथिष्यामः समं देवैः क्षीरोदं सह दानवैः । त्वच्छरीरामृतमिदं यत् स्थितं क्षीरसागरे ॥ तत्प्रमथ्य ग्रहीष्यामो राशीभूतं तथाक्षयम् । सर्व्वौषध्यन्तरे कृत्वा त्वच्छरीरं तदा वयम् । क्षेप्स्थामः सागरजले शरीरार्थं विधो तव ॥ निर्म्मथ्य सागरं पश्चात् समुद्धार्य्य यदामृतम् । तदा तव वपुस्तस्मिन्नपूर्ब्बं सम्भविष्यति ॥ ओजो वीर्य्यांशुकं कान्तमक्षयञ्च सुधात्मकम् । दृढाङ्गसन्धिकं चारु भविष्यति वपुस्तव ॥ मार्कण्डेय उवाच । सुधांशुमेवमाभाष्य ब्रह्मा लोकपितामहः । विधोः क्षयाय मासार्द्धं वृद्धये यत्नवानभूत् ॥ यथा दक्षेण गदितं मासार्द्धं यातु चन्द्रमाः । क्षयं वृद्धिञ्च मासार्द्धं यत्नं तत्राकरोद्विधिः ॥ यतः षोडशधा चन्द्रं सुरज्येष्ठो विभक्तवान् । विभज्य च सुरान् सर्व्वान् समुवाचेदमद्भुतम् ॥ कलाः षोडश चन्द्रस्य तत्रैका शम्भुमूर्द्धनि । तिष्ठत्यद्यावधि पराः क्षयं यान्तु क्षयं विना ॥ क्षयेण यदि रोगेण मासार्द्धं दक्षवाक्यतः । क्षयाय पीड्यते चन्द्रो नोपशान्तिः सदा भवेत् ॥ किन्त्वस्य या कला शम्भौ ज्योत्स्ना गच्छन्तु तां प्रति । चतुर्द्दशकलासंस्थाः प्रतिमासं सुरोत्तमाः ॥ चतुर्द्दशकलासंस्थान्यमृतानि पिबन्तु वै । प्रतिपत्तिथिमारभ्य भवन्तस्त्वाचतुर्द्दशीम् ॥ तेजोभागाः सूर्य्यविम्बं चतुर्द्दशतिथौ क्रमात् । प्रविशन्तु क्षयं त्वेवं कृष्णपक्षे विधोर्भवेत् ॥ यातु शषा कलादर्शे हरित्पत्रे पलायिता । तिष्ठतु प्रथमे भागे तिथौ तस्यां निशापतेः ॥ द्वितीये दर्शभ्रागे तु रोहिण्या यातु मन्दिरम् । तृती तु सरस्वत्यां स्नात्वा सन्धुक्षितो विधुः ॥ चतुर्थे बलसंपूर्णस्तिथिभागे विभावसोः । मण्डलं यातु चन्द्रोऽयं सविम्बरथघोटकः ॥ यावत्कालेन हि कला प्रथमा क्षयमाप्नुयात् । एवमेवं कृष्णपक्षे तावत्स्था प्रतिपत् भवेत् ॥ द्वितीयादौ कृष्णपक्षे वृद्धिर्ह्नासस्तथाविधः । तिथीनां वृद्धिहेतुश्च शुक्ले कृष्णे तथा भवेत् ॥ ततः पुनः शुक्लपक्षे यावत् पूर्ब्बा कलोदिता । वृद्धिमैति भवेत्तावत् प्रतिपत्तिथिरादितः ॥ ततो द्वितीयभागस्य या ज्योत्स्ना हरमूर्द्धनि । स्थितायां वै कलायान्तु गता सा पुनरेष्यति ॥ युष्माभिस्तु भवेत् पेयममृतं यद्दिने दिने । तद्द्वितीयादितिथिभिः पूर्णान्ताभिः सदैव हि ॥ स्वयमुत्पत्स्यते चन्द्रो ज्योत्स्नायोगात् सुरो- त्तमाः । यथा दिने दिने भागाः क्षयं यान्ति तथा विधोः ॥ वृद्धिं गच्छन्त्यनुदिनं शुक्लपक्षेऽन्वहं सुराः । तेजोभागः सूर्य्यविम्बात् पुनरेव समेष्यति ॥ प्रयास्यति कृष्णपक्षे यथाभागक्रमन्तथा । ज्योत्स्नाहरशिरश्चन्द्रात् प्रत्यहं पुनरेष्यति ॥ तेजोभागः सूर्य्यविम्बादमृतं वत्स्यते स्वयम् । एवं वृद्धिः शुक्लपक्षे सुधांशोः संभविष्यति ॥ पक्षयोः शुक्लकृष्णत्वं चन्द्रवृद्धिक्षयाद्भवेत् । यावत्कालेन यो भागं क्षयं वृद्धिञ्च यास्यति ॥ तावत्कालमभिव्याप्य तिथिः स्थास्यति सा पुनः ॥ चिरेण वृद्धिर्यदि वा क्षयो वा द्रुतेन वृद्धिर्यदि वा क्षयो वा । द्रुतात्तिथीनां तु सदा क्षयः स्या- च्चिरात्तु वृद्धिस्थितिषु प्रवेशे ॥ हव्यं कव्यञ्च चन्द्रेण विना न संभविष्यति । तस्मात् तयोः प्रवृद्ध्यर्थं चन्द्रं रक्षन्तु देवताः ॥ आस्वादनीयः शुभ्रांशुः कलाशेषोऽनुमासतः । अमावास्यापराह्ने तु पितृभी रोहिणीगृहे ॥ तस्यैवास्वादनात् कव्यं वृद्धिं यास्यति चान्वहम् । तेन कव्येन पितरस्तृप्तिं यास्यन्ति वै पराम् ॥ श्रीमार्कण्डेय उवाच । ततः सुरगणाः सर्व्वे यथोक्तं विधिना तथा । चक्रुर्लोकहितार्थाय चन्द्रस्य क्षयवृद्धये ॥ महादेवोऽपि चन्द्रार्द्धं स्वरूपं परमात्मनः । जग्राह देवैर्विधिना शिरसाभ्युदितो भृशम् ॥ यत्तेजः परमं नित्यमजमव्ययमक्षयम् । तत्स्वरूपाश्चन्द्रकलाः शापतस्तु क्षयं गताः ॥ प्रविशन्ति यदा ज्योतिरानन्दमजरं परम् । योगिनान्तु तदा तेषां चित्तं तल्लीनमेष्यति ॥ महादेवशिरःसंस्थे लीने चित्ते सुधानिधौ । चन्द्रद्वारा भवेन्मुक्तिरित्येवं वैदिकी श्रुतिः ॥ एतज्ज्ञात्वा महादेवः क्षयवृद्ध्या विना कृतम् । हिताय सर्व्वलोकानां जग्राह शिरसा विधुम् ॥ चन्द्रज्योत्स्नासमायोगादोषध्यो यान्ति वृद्धये । सर्व्वौषधीषु वृद्धासु प्रवर्त्तन्ते ततोऽध्वराः ॥ अध्वरेषु प्रवृत्तेषु स्वान् स्वान भागांस्तु देवताः । परिगृह्णन्ति पितरस्तथा कव्यानि भूरि च ॥ अमृतं ब्रह्मणा सृष्टं यद्देवेभ्यः पूरातनम् । तेन तृप्यन्ति हीना ये हव्यभागेन दैवताः ॥ यज्ञेनाप्यायिते तच्च ज्योत्स्नाभिर्वृद्धिमेति वै । यज्ञज्योत्स्ना विना भूतं तच्च स्यात् क्षीण- मन्यथा ॥ अतोऽमृतस्य यज्ञस्य चन्द्रमाः कारणं स्वयम् । अतोऽस्य दक्षशापात्तु रक्षायै तच्चिकीर्षितम् ॥ अद्यापि कृष्णपक्षेऽपि सुधा संपीयते सुरैः । तेजः सूर्य्यं याति शम्भोश्चन्द्रार्द्धं ज्योत्स्निकातथा । पुनश्च शुक्लपक्षे तु शेषोदेति कला ततः । ज्योत्स्नाद्वितीयो भागस्तु तेजोभागो द्वितीयकः ॥ अन्वेत्युग्रशिरश्चन्द्रात् सूर्य्यविम्बाद्यथाक्रमम् । कलाः षोडश चन्द्रस्य तत्रैका शम्भुशेखरे ॥ सितासितावुभौ पक्षौ शेषाणामुदयक्षयौ । इति वः सर्व्वमाख्यातं विभक्तश्चन्द्रमा यथा ॥ ब्रह्मणा पर्व्वतश्रेष्ठे तथा तच्चन्द्रभागतः । यज्ञभागे स्थिते यस्माद्देवार्थमकरोद्धिधुम् । कव्ये स्थितेऽपि पित्रर्थं तिथिवृद्धिक्षयौ यथा ॥ इदं पुण्यतमाख्यानं यः शृणोति सकृन्नरः । राजयक्ष्मा तस्य कुले न कदाचिद्भविष्यति ॥ यक्ष्मणा परिभूतो यः शृणोति वचनं विधेः । अचिरात् यक्ष्मणा मुक्तः स भवेन्नरसत्तमः ॥ इदं स्वस्त्ययनं पुण्यं गुह्यात् गुह्यतरं परम् । यः शृणोत्येकचित्तः सन् स महापुण्यभाग्- भवेत् ॥” इति कालिकापुराणे २१ अध्यायः ॥



Correction: