संस्कृत-शब्दकोशः

राजरङ्ग राजरीति

राजराज

वाचस्पत्यम्

राजराज ||‍ पु० राज्ञामपि राजां प्रभूतधनत्वात् टच् समा० । १ कुवेरे, अमरः । २ सार्वभौमनृपे, ३ चन्द्रे च मेदि० ।


शब्दकल्पद्रुमः

राजराजः || पुं, (राज्ञामपि राजा धनाधिपत्वात् । “राजाहःसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।)
कुबेरः । इत्यमरः । १ । १ । ६३ ॥ (यथा, किरातार्ज्जुनीये । ५ । ५१ । “इत्युक्त्वा सपदि हितंप्रियं प्रियार्हे धाम स्वं गतवति राजराजभृत्ये । सोत्कण्टं किमपि पृथासुतः प्रदध्यौ सन्धत्ते भृशमरतिं हि सद्वियोगः ॥”)
सार्व्वभौमः । (यथा, रामायणे । २ । ९२ । १४ । “प्रयाणमिति च श्रुत्वा राजराजस्य योषितः । हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ॥”)
सुधाकरः । इति मेदिनी । जे, ३६ ॥



Correction: