वाचस्पत्यम्
राजवृक्ष || पु० वृक्षाणां राजा राजद० परनि० । १ आरग्बधे (सोन्दाल) अमरः । राजप्रियो वृक्षस्तत्फलवीजजातलड्- डुकस्य राजप्रियत्वात् । २ प्रियाले मेदि० । ३ लङ्कास्थायिवृक्षे (लङ्कासिज) शब्दच० ।
शब्दकल्पद्रुमः
राजवृक्षः || पुं, (वृक्षाणां राजा । राजदन्तादित्वात् परनिपातः ।)
आरग्वधवृक्षः । इत्यमरः ॥ पियालवृक्षः । इति मेदिनी ॥ लङ्कास्थायी वृक्षः । इति शब्दचन्द्रिका ॥ लङ्कासिज् इति भाषा ॥