वाचस्पत्यम्
राजस्व || न० राज्ञे देयं स्वं कररूपम् धनम् । १ राजदेये करे ६ त० । २ राजधने च ।
शब्दकल्पद्रुमः
राजस्वं || पुं क्ली, (राज्ञे देयं स्वं धनम् ।) राज- धनम् । राजकरः । इति लोकप्रसिद्धम् ॥