वाचस्पत्यम्
राजादन || पु० राज्ञा अद्यते तत्फलवीजजातलड्डुकः अद- कर्मणि ल्युट् । १ पियालवृक्षे अमरः । यस्य फलवीजं (चि- रञ्जि) तेन हि लड्डुक कृत्वा राज्ञा भुज्यते । २ क्षी- रिकायां (क्षीरुइ) २ किंशुके च मेदि० । ४ क्षीरिण्यां स्त्री ङीप् सरता ।
शब्दकल्पद्रुमः
राजादनं || क्ली (राजभिरद्यते इति । अद भक्षणे + कर्म्मणि ल्युट् ।)
क्षीरिका । पियालः । किंशुकः । इति मेदिनी । ने, २०५ ॥ (यथा, सुश्रुते । १ । ४६ । लवणवर्गे । “दाडिमामलकं द्राक्षा खर्ज्जूरं सपरूषकम् । राजादनं मातुलुङ्गं फलवर्गे प्रशस्यते ॥” पुंलिङ्गान्तोऽपि दृश्यते । इत्यमरः । २ । ४ । ४५ ॥ हेमचन्द्रश्च । ४ । २०८ ॥ क्षीरिकार्थे पर्य्यायो यथा, —
“राजादनः क्षीरवृक्षः पालाशी वानरप्रियः ॥” इति वैद्यकरत्नमालायाम् ॥ किंशुकार्थे पर्य्यायो यथा, —
“वातपोथः पलाशः स्याद्वानप्रस्थश्च किंशुकः । राजादनो ब्रह्मवृक्षो हस्तिकर्णो दलोऽपरः ॥”)