संस्कृत-शब्दकोशः

राजादन राजानुजीविन्

राजादनी

शब्दकल्पद्रुमः

राजादनी || स्त्री (राजभिरद्यते या । अद् + कर्म्मणि ल्युट् । ङीप् ।)
वृक्षविशेषः । क्षीरिणी इति भाषा । तत्पर्य्यायः । राजफलः २ क्षीर- वृक्षः ३ नृपद्रुमः ४ निम्बबीजः ५ मधुफलः ६ कपीष्टः ७ माधवोद्भवः ८ क्षीरी ९ गुच्छ- फलः १० भूपेष्टः ११ राजवल्लभः १२ श्रीफलः १३ दृढस्कन्धः १४ क्षीरशुक्लः १५ । अस्या गुणाः । मधुरत्वम् । पित्तनाशित्वम् । गुरुत्वम् । तर्पण- त्वम् । वृष्यत्वम् । स्थौल्यकरत्वम् । हृद्यत्वम् । सुस्निग्धत्वम् । मेहनाशित्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “क्षीरिकायाः फलं वृष्यं बल्यं स्निग्धं हिमं गुरु । तृष्णामूर्च्छामदभ्रान्तिक्षयदोषत्रयास्रजित् ॥” इति भावप्रकाशः ॥



Correction: