वाचस्पत्यम्
राजान्न || न० अन्नानां राजा राजद० । १ आन्ध्रदेशजधान्यभेदे राजनि० । ६ त० । २ नृपस्वामिकान्ने च
शब्दकल्पद्रुमः
राजान्नं || क्ली (राजयोग्यमन्नम् । अन्नानां राजा इति वा ।)
अन्ध्रदेशोद्भवशालिविशेषः । तत्प- र्य्यायः । नृपान्नम् २ राजार्हम् ३ दीर्घशूककम् ४ धान्यश्रेष्ठम् ५ राजधान्यम् ६ राजेष्टम् ७ दीर्घकूरकम् ८ । अस्य गुणाः । त्रिदोषघ्नत्वम् । सुस्निग्धत्वम् । मधुरत्वम् । लघुत्वम् । दीपन- त्वम् । बलकारित्वम् । पथ्यत्वम् । कान्तिवीर्य्य- वृद्धिदत्वञ्च । इति राजनिर्घण्टः ॥ (राज्ञः अन्नम् ।)
राजस्वामिकभक्तम् । तद्भोजननिषेध- प्रायश्चित्ते राजशब्दे द्रष्टव्ये ॥ (राजान्न- भक्षणेन हि तेजोहानिर्भवति । यथा, मनुः । ४ । २१८ । “राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मबर्च्चसम् । आयुः सुवर्णकारान्नं यशश्चर्म्मावकर्त्तिनः ॥”)