संस्कृत-शब्दकोशः

राजादनी राजान्न

राजानुजीविन्

शब्दकल्पद्रुमः

राजानुजीवी || [न्] त्रि, (राज्ञः अनुजीवी ।)
राजोपजीवी । तस्य कर्म्माणि यथा, — मत्स्य उवाच । “यथानुवर्त्तितव्यं स्यान्मनो राजोपजीविना । तथा ते कथयिष्यामि निबोध गदतो मम ॥ आज्ञा सर्व्वात्मना कार्य्या स्वशक्त्या रविनन्दन । आक्षिप्य वचनन्तस्य न वक्तव्यं तथा वचः ॥ अनुकूलं प्रियन्तस्य वक्तव्यं ज्ञानसंसदि । रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत् ॥ परार्थमस्य वक्तव्यं स्वस्थे चेतसि भार्गव । स्वार्थः सुहृद्भिर्व्वक्तव्यो न स्वयन्तु कदाचन ॥ कार्य्याभिघातः सर्व्वेषु रक्षितव्यः प्रयत्नतः । न च हिंस्यं धनं किञ्चिन्नियुक्तेन च कर्म्मणि ॥ नोपेक्ष्यं भाष्यमाणञ्च तथा राज्ञः प्रियो भवेत् । राज्ञश्च न तथा कार्य्यं वेशभाषितचेष्टितम् ॥ राजलीला न कर्त्तव्या तद्विद्विष्टं विवर्ज्जयेत् । राज्ञः समोऽधिको वा न कार्य्यो वेशो विजा- नता ॥ द्यूतादिषु तथैवास्य कौशलञ्च प्रदर्शयेत् । प्रदर्श्य कौशलञ्चास्य राजानञ्च विशेषयेत् ॥ अन्तःपुरधनाध्यक्षैश्चरदूतैः समागतैः । संसर्गं न व्रजेद्राजन् ! विना पार्थिवशासनम् ॥ निःस्नेहताञ्चावमानं प्रयत्नेन च गोपयेत् । यच्च गुह्यं भवेद्राज्ञो न तल्लोके प्रकाशयेत् ॥ नृपेण श्रावितं यत् स्याद्वाच्यावाच्यं नृपोत्तम ! । न तत् संश्रावयेल्लोके तदा राज्ञः प्रियो भवेत् ॥ आज्ञाप्यमाने चान्यस्मिन् समुत्थाय त्वरान्वितः । अहं किं करवाणीति वाच्यो राजा विजा- नता ॥ कार्य्यावस्थाञ्च विज्ञाय कार्य्यमेव तथा भवेत् । सततं क्रियमाणेऽस्मिन् लाघवन्तु व्रजेत् ध्रुवम् ॥ राज्ञः प्रियाणि वाक्यानि न चात्यर्थं पुनःपुनः । न हास्यशीलश्च भवेन्न चापि भ्रुकुटीमुखः ॥ नातिवक्ता न निर्व्वक्ता न च मत्सरिकस्तथा । आत्मसम्भावितश्चैव न भवेत् कथञ्चन ॥ दुष्कृतानि नरेन्द्रस्य न तु संकीर्त्तयेत् क्वचित् । वस्त्रं शस्त्रमलङ्कारं राज्ञा दत्तञ्च धारयेत् ॥ औदार्य्येण न तद्देयमन्यस्मै भूतिमिच्छता । तच्चैवोपासनं कार्य्यं दिवास्वप्नं न कारयेत् ॥ नानिर्द्दिष्टे तथा द्वारे प्रविशेत कदाचन । न च पश्येत्तु राजानमयोग्यासु च भूमिषु । राज्ञस्तु दक्षिणे पार्श्वे वामे चोपविशेत्तथा । पुरस्तात्तु तथा पश्चादासनन्तु विगर्हितम् ॥ जृम्भा निष्ठीवनं कासं कोपं पर्य्यस्तिकाश्रयम् । भ्रुकृटीं वान्तमुद्गारं तत्समीपे विवर्जयेत् ॥ स्वयं तत्र न कुर्व्वीत स्वगुणाख्यापनन्तथा । स्वगुणाख्यापने चैव परमेव प्रयोजयेत् ॥ हृदयं निर्म्मलं कृत्वा परां भक्तिमुपाश्रितैः । अनुजीविगणैर्भाव्यं नित्यं राज्ञामतन्द्रितैः ॥ शाट्यं लौल्यञ्च पैशुन्यं नास्तिक्यं क्षुद्रतान्तथा । चापल्यञ्च परित्याज्यं नित्यं राजानुजीविना ॥ श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना । राजसेवां ततः कुर्य्याद्भूतये भूतिवर्द्धिनीम् ॥ नमस्कार्य्याः सदा चास्य पुत्त्रवल्लभमन्त्रिणः । सचिवैश्चास्य विश्वासो न तु कार्य्यः कथञ्चन ॥ अपृष्टश्चास्य न ब्रूयात् कामं ब्रूयात्तथापदि । हितं पथ्यञ्च वचनं हितैः सह सुनिश्चितम् ॥ चित्तञ्चैवास्य विज्ञेयं नित्यमेवोपजीविना । भर्त्तुराराधनं कुर्य्यात् चित्तज्ञो मानवः सुखम् ॥ रागापरागौ चैवास्य विज्ञेयौ भूतिमिच्छता । त्यजेद्वृत्तिं विरक्तस्तु रक्तो वृत्तिन्तु कारयेत् ॥ विरक्तः कारयेन्नाशं विपक्षाभ्युदयन्तथा । आशावर्द्धनकं कृत्वा फलनाशं करोति च ॥ अकोपोऽपि सकोपान्तः प्रसन्नोऽपि च निष्फलः । वाक्यं स मन्दं वदति वृत्तिच्छेदं करोति च ॥ प्रदेशवाक्यमुदितो न सम्भावयतेऽन्यथा । आराधनासु सर्व्वासु सुप्तवच्च विचेष्टते ॥ कथासु दोषं क्षिपति वाक्यभङ्गं करोति च । लक्ष्यते विमुखैश्चैव गुणसंकीर्त्तने कृते ॥ दृष्टिं क्षिपत्यथान्यत्र क्रियमाणे च कर्म्मणि । विरक्तलक्षणं ह्येतत् शृणु रक्तस्य लक्षणम् ॥ दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात् । कुशलादिपरिप्रश्नी संप्रयच्छति चासनम् ॥ विरक्तदर्शने चास्य रहस्ये च न शङ्कते । जायते हृष्टवदनः श्रुत्वा तस्य तु तत्कथाम् ॥ अप्रियाण्यपि वाक्यानि तदुक्तान्यभिनन्दति । उपायनञ्च गृह्णाति स्तोकमप्यादरात्तथा ॥ कथान्तरेषु स्मरति प्रहृष्टवदनस्तथा । इति रक्तस्य कर्त्तव्या सेवा रविकुलोद्वह ॥ आपत्सु न त्यजेत् पूर्ब्बं विरक्तमपि सेवितम् ॥ मित्रं न चापत्सु तथा च भृत्यं त्यजन्ति ये निर्गुणमप्रमेयम् । प्रभुं विशेषेण च ते व्रजन्ति सुरेन्द्रधामामरवृन्दजुष्टम् ॥” इति मत्स्यपुराणे राजधर्म्मे अनुजीविवृत्तिनाम २१६ अध्यायः ॥



Correction: