वाचस्पत्यम्
राजिल || पुंस्त्री० राज—इलच् । डुण्डुभसर्पे (ढीडासाप) अमरः स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
राजिलः || पुं, (राजी रेखास्त्यस्यति । राजि + सिध्मादित्वात् लच् । यद्वा, राजिं लातीति । ला + कः ।)
डुण्डुभसर्पः । इत्यमरः । १ । ८ । ५ ॥ (यथा, रघुः । ११ । २७ । “किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्त्तते ॥”)