संस्कृत-शब्दकोशः

राजिल राजीफल

राजी

वाचस्पत्यम्

राजी is an alternate of राजि. राजि(जी) ||‍ स्त्री राज—इन् वा ङीप् । १ श्रेण्याम् पङ्क्तौ २ रेखायां च मेदि० । खार्थे क । रेखायाम् । राजते राज—ण्वुल् । राजिका राजसर्षपे स्त्री मेदि० ।


शब्दकल्पद्रुमः

राजी || स्त्री (राजि + कृदिकारादिति ङीष् ।)
निच्छिद्रपङ्क्तिः । इति शब्दरत्नावली ॥ (श्रेणिः । यथा, माघे । ४ । ९ । “राजीवराजीवशलोलभृङ्ग- मुष्णन्तमुष्णन्ततिभिस्तरूणाम् ॥”)
राजिका । (अस्या गुणा यथा, —
“राजी तु राजिका तीक्ष्णगन्धा क्षुज्जनिकासुरी । क्षवः क्षुताभिजनकः कृमिकः कृष्णसर्षपः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)
रक्तवर्णसर्षपः । इति राजनिर्घण्टः ॥



Correction: