शब्दकल्पद्रुमः
राज्यक्ता || स्त्री (राज्या सर्षपेण अक्ता म्रक्षिता ।)
पिष्टराजिकादधिलवणमिश्रितसूक्ष्मालावू- खण्डादि । रायता इति भाषा ॥ यथा, —
“संचूर्ण्य निक्षिपेत्तक्रे भृष्टं जीरकहिङ्गु च । लवणान्तत्र वटकान् सकलानपि मज्जयेत् ॥ शुक्रलस्तत्र वटको बलकृद्रोचनो गुरुः । विबन्धकृद्बिदाही च श्लेष्मलः पवनापहः । राज्यक्तयातिरोचिन्या पाचन्या तांस्तु भक्षयेत् ॥” इति भावप्रकाशे कृतान्नवर्गः ॥