शब्दकल्पद्रुमः
रात्रिमटः || पुं, (रात्रौ अटतीति । अट् + अच् ॥ “रात्रेः कृति विभाषा ।” ६ । ३ । ७२ । इति मुम् ।) राक्षसः । इति त्रिकाण्डशेषः ॥ रात्रौ गमनकर्त्तरि, त्रि ॥