वाचस्पत्यम्
रात्रिवासस् || न० रात्रेर्वास इवाच्छादकम् । १ अन्धकारे शब्दमा० रात्रौ परिधेयं वासः शाक० । २ रात्रौ परिधेये वस्त्रे च ।
शब्दकल्पद्रुमः
रात्रिवासः || [स्] क्ली, (रात्रेर्वासो वस्त्रमिव ।)
अन्धकारः । इति शब्दमाला ॥ रात्रौ शयन- कालीनपरिधेयवस्त्रम् । यथा । ब्राह्म्ये मुहूर्त्ते उत्थाय मुक्तस्वापः रात्रिवासस्त्यक्त्वा शिरसि सहस्रदलकमलावस्थितं श्वेतवर्णं द्विभुजं वरा- भयकरं श्वेतमाल्यानुलेपनं स्वप्रकाशरूपं स्ववामस्थितरक्तशक्त्या सुप्रकाशरूपया सहितं गुरुं विभाव्य मानसोपचारैराराध्य नम- स्कुर्य्यात् । इति तन्त्रसारः ॥ अपि च । “शयनञ्चान्धकारे च रात्रिवासो दिने तथा । स्नानाम्बरं कुवेशञ्च वर्ज्जयेत् शुष्कभोजनम् ॥” इति लक्ष्मीचरित्रम् ॥