वाचस्पत्यम्
राद्धान्त || पु० राद्धः लिद्धः अन्तो निर्णयो यस्मात् ५ ब० । संशयविषये वादिदर्शितपक्षनिराकरणपूर्वकयथार्थपक्षप्रयि- पादके २ वाक्ये अमरः ।
शब्दकल्पद्रुमः
राद्धान्तः || पुं, (राद्धः सिद्धः अन्तो निर्णयो यस्मात् ।)
सिद्धान्तः । इत्यमरः । १ । ५ । ४ ॥ (यथा, भागवते । १२ । ११ । १ । “अथेदमर्थं पृच्छामो भवन्तं बहुवित्तमम् । समस्ततन्त्रराद्धान्ते भवान् भागवततत्त्ववित् ॥”)