वाचस्पत्यम्
राध || पु० राधा विशाखा तत्समीपस्था अनुराधा च तद्युक्ता पौर्णमासी अण् ङीप् राधो सा यत्र मासे पुनरण् । १ चान्द्रे वैशास्वे मासि । तादृशे २ पक्षे ३ गुरुवर्षे च कार्त्तिकशब्दे दृश्यम् । ४ तत्पूर्णिमायां स्त्री ङीप् ।
वाचस्पत्यम्
राध || सिद्धौ अक० निष्पादने पाके च सक० स्वादि० दिवा० च पर० अनिट् । राध्नोति राध्यति अरात्सीत् अराद्ध रेधतुः रराधतुः । शुभाशुभालोचने च । तद्योगे शुभा- शुभस्वामिनः सम्प्रदानता । “गर्गो राध्यति रामाय” वोपदेवः । अप + दोषकरणे “यन्मह्यमपराध्यति” मघः ।
शब्दकल्पद्रुमः
राध || न औ य सिद्धौ । इति कविकल्पद्रुमः ॥ (स्वा०-दिवा०-च-पर०-स्वादिपक्षे सक०-दिवा- दिपक्षे अक०-अनिट् ।)
रेफादिः । न, राध्नोति । य, राध्यति । औ, अरात्सीत् । सिद्धिरिह स्वादिपक्षे निष्पादना । दिवादिपक्षे निष्पत्तिः । अन्नं राध्नोति विप्राणां य इति हलायुधः । निष्पादयतीत्यर्थः । सततं राध्यति श्रिये इति हलायुधः । निष्पन्नी स्यादित्यर्थः । सिद्धिरन्तर्भूतञ्यर्थत्वादुभयत्रैव निष्पादनेति गोविन्दभट्टः । इति दुर्गादासः ॥ (शुभाशुभ- पर्य्यालोचने च । यथा, मुग्धबोधे । “गर्गो राध्यति रामाय ।” रामस्य शुभाशुभं पर्य्या- लोचयतीत्यर्थः ॥)
शब्दकल्पद्रुमः
राधः || पुं, (राधा विशाखा तद्वती पौर्णमासी राधी । सास्मिन्नस्तीति । राधी + “सास्मिन् पौर्णमासीति ।” ४ । २ । २१ । इति अण् ।)
वैशाखमासः । इत्यमरः । १ । ४ । १६ ॥ (यथा, राजतरङ्गिण्याम् । ८ । २४८२ । “राघमासावधि दधुस्ततः प्रभृति वारिदाः ॥” धनम् । यथा, ऋग्वेदे । १ । ३० । ५ । “स्तोत्रं राधानां पते गीर्वाहो वीर यस्य ते ॥” “हे इन्द्र राधानां पते धनानां पालक ।” इति तद्भाष्ये सायणः ॥)