संस्कृत-शब्दकोशः

राधस् राधाकान्त

राधा

वाचस्पत्यम्

राधा ||‍ स्त्री राध—अच् । १ विशाखानक्षत्रे रिरंसया रमणी- देहत्वेनाविर्भूते गोलोकस्थे परमेश्वरार्द्धाङ्गस्वरूपे २ शक्ति- भेदे तत्रैव श्रीदामशापात् वृन्दावने जातायां वृपभानु- सुतायां ३ प्रधानगोपिकायाम् ४ कर्णस्य पालयित्र्यां मातरि च । ५ वैशाखपौर्णमास्यां स्त्री ङीप् ।


शब्दकल्पद्रुमः

राधा || स्त्री (राध्नोति साधयति कार्य्याणीति । राध + अच् । टाप् ।)
धन्विनां चित्रभेदः । (यथा, बालभारते १ अङ्के । “इह हि महा- राजसमाजे न जाने कमवलम्बिष्यते राधावेध- कीर्त्तिर्व्वैजयन्ती ॥”)
गोपीविशेषः । विशाखा- नक्षत्रम् । आमलकी । विष्णुक्रान्ता । विद्युत् । इति मेदिनी । धे, १३ ॥ (सूतस्याधिरथस्य पत्नी । असौ एव कुन्तीगर्भजस्य शिशोः कर्णस्य पालयित्री अतएव कर्णो राधासुत इति ख्यात आसीत् । यथा, महाभारते । १ । ६७ । १३८ — १३९ । “निगूहमाना जातं वै बन्धुपक्षभयात्तदा । उत्ससर्ज्ज जले कुन्ती तं कुमारं यशस्विनम् ॥ तमुत्सृष्टं जले गर्भं राधाभर्त्ता महायशाः । राधायाः कल्पयामास पुत्त्रं सोऽधिरथस्तदा ॥” तथा च देवीभागवते । २ । ६ । ३८ । “राधा सूतस्य भार्य्या वै तयासौ प्रार्थितः सुतः । कर्णोऽभूद्बलवान् वीरः पालितः सूतसद्मनि ॥”)
श्रीराधिका । सा च श्रीकृष्णवामभागांशा शक्तिः । यथा, —
“स कृष्णः सर्व्वसृष्ट्यादौ सिसृक्षुरेक एव च । सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः ॥ स्वेच्छामयः स्वेच्छया च द्विघारूपो बभूव ह । स्त्रीरूपा वामभागांशा दक्षिणांशः पुमान् स्मृतः ॥ तां ददर्श महाकामी कामाधारः सनातनः । अतीवकमनीयाञ्च चारुचम्पकसन्निभाम् ॥” इत्यादि ॥ * ॥
तस्या अनपत्यताकारणादिर्यथा, —
“दृष्टिमात्रं तया सार्द्धं रासेशो रासमण्डले । रासोल्लासे सुरहसि रासक्रीडाञ्चकार ह ॥ नानाप्रकारशृङ्गारं शृङ्गारो मूर्त्तिमानिव । चकार सुखसम्भोगं यावद्वै ब्रह्मणो दिनम् ॥ ततः स चापरिश्रान्तस्तस्या योनौ जगत्पिता । चकार वीर्य्याधानञ्च नित्यानन्दः शुभे क्षणे ॥ गात्रतो योषितस्तस्याः सुरतान्ते च सुव्रत । निःससार श्रमजलं श्रान्तायास्तेजसा हरेः ॥ महाक्रमणक्लिष्टाया निःश्वासश्च बभूव ह । तदा वव्रे श्रमजलं तत्सर्व्वं विश्वगोलकम् ॥ स तु निश्वासवायुश्च सर्व्वाधारो बभूव ह । निःश्वासवायुः सर्व्वेषां जीविनाञ्च भवेषु च ॥ बभूव मूर्त्तिमद्वायोर्वामाङ्गात्प्राणवल्लभा । तत्पत्नी सा च तत्पुत्त्राः प्राणाश्च पञ्च जीविनाम् ॥ प्राणोऽपानः समानश्चैवोदानो व्यान एव च । बभूवुरेव तत्पुत्त्रा अधःप्राणाश्च पञ्च च ॥ घर्म्मतोयाधिदेवश्च बभूव वरुणो महान् । तद्वामाङ्गात्तु तत्पत्नी वरुणानी बभूव ह ॥ अथ सा कृष्णशक्तिश्च कृष्णगर्भं दधार च । शतमन्वन्तरं यावत् ज्वलन्ती ब्रह्मतेजसा ॥ कृष्णपाणाधिदेवी सा कृष्णप्राणाधिकप्रिया । कृष्णस्य सङ्गिनी शश्वत् कृष्णवक्षःस्थलस्थिता शतमन्वन्तरातीतकालेऽतीतेऽपि सुन्दरी । सुषाव डिम्बं स्वर्णाभं विश्वाधारालयं परम् ॥ दृष्ट्वा डिम्बञ्च सा देवी हृदयेन विदूयता । उत्ससर्ज्ज च कोपेन ब्रह्माण्डं गोलके जले ॥ दृष्ट्वा कृष्णश्च तत्त्यागं हाहाकारं चकार ह । शशाप देवीं देवेशस्तत्क्षणञ्च यथोचितम् ॥ यतोऽपत्यं त्वया त्यक्तं कोपशीले सुनिष्ठुरे । भव त्वमनपत्यापि चाद्यप्रभृति निश्चितम् ॥ या यास्तदंशरूपाश्च भविष्यन्ति सुरस्त्रियः । अनपत्याश्च ताः सर्व्वास्तत्समा नित्ययौवना ॥ एतस्मिन्नन्तरे देवीजिह्वाग्रात् सहसा ततः । आविर्ब्बभूव कन्यैका शुक्लवर्णा मनोहरा ॥ पीतवस्त्रपरीधाना वीणापुस्तकधारिणी रत्नभूषणभूषाढ्या सर्व्वशास्त्राधिदेवता ॥ अथ कालान्तरे सा च द्विधारूपा बभूव ह । वामार्द्धाङ्गा च कमला दक्षिणार्द्धा सरस्वती ॥ एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः । दक्षिणार्द्धाच्च द्बिभुजो वामार्द्धाच्च चतुर्भुजः ॥ उवाच वाणीं श्रीकृष्णस्त्वमस्य कामिनी भव । अत्रैव मानिनी राधा नैव भद्रं भविष्यति ॥ एवं लक्ष्मीञ्च प्रददौ तुष्टो नारायणाय च । स जगाम च वैकुण्ठं ताभ्यां सार्द्धं जगत्पतिः ॥ अनपत्ये च ते द्वे च यतो राधाङ्गसम्भवा ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २ अध्यायः ॥ राधाया उत्पत्तिर्यथा, —
“पुरा वृन्दावने रम्ये गोलोके रासमण्डले । शतशृङ्गैकदेशे च मल्लिकामाधवीवने ॥ रत्नसिंहासने रम्ये तस्थौ तत्र जगत्पतिः । स्वेच्छामयश्च भगवान् बभूव रमणोत्सुकः ॥ रमणं कर्त्तुमिच्छुश्च तद्बभूव सुरेश्वरी । इच्छया च भवेत् सर्व्वं तस्य स्वच्छामयस्य च ॥ एतस्मिन्नन्तरे दुर्गे द्बिधारूपो बभूव सः । दक्षिणाङ्गश्च श्रीकृष्णो वामार्द्धाङ्गा च राधिका ॥ बभूव रमणी रम्या रासेशी रमणोत्सुका । अमूल्यरत्नाभरणा रत्नसिंहासनस्थिता ॥ वह्निशुद्धांशुकाधाना कोटिपूर्णशशिप्रभा । तप्तकाञ्चनवर्णाभा राजिता च स्वतेजसा ॥ सस्मिता सुदती शुद्धा शरत्पद्मनिभानना । विभ्रती कवरीं रम्यां मालतीमाल्यमण्डिताम् ॥ रत्नमालाञ्च दधती ग्रीष्मसूर्य्यसमप्रभाम् । मुक्ताहारेण शुभ्रेण गङ्गाधारानिभेन च ॥ संयुक्तं वर्त्तुलोत्तुङ्गं सुमेरुगिरिसन्निभम् । कठिनं सुन्दरं दृश्यं कस्तूरीपत्रचित्रितम् ॥ माङ्गल्यं मङ्गलार्हञ्च स्तनयुग्भञ्च विभ्रतीम् । नितम्बश्रोणिभारार्त्तां नवयौवनसंयुताम् ॥ कामातुरां सस्मिताञ्च ददर्श रसिकेश्वरः । दृष्ट्वा कान्तां जगत्कान्तो बभूव रमणोत्सुकः ॥ दृष्ट्वा रिरंसुं कान्तञ्च सा दघार हरेः पुरः । रासेशं भूय गोलोके सा दधार हरेः पुरः ॥ तेन राधा समाख्याता पुराविद्भिर्महेश्वरि । राधा जयति श्रीकृष्णं स च ताञ्च परस्परम् ॥ उभयोः सर्व्वसाम्यञ्च सदा सर्व्वे वदन्ति च । भवनं धावनं रासे स्मरत्यालिङ्गनं जपेत् ॥ तेन जल्पति सङ्केताद्रस्या राधा यदीश्वरः । राशब्दोच्चारणाद्भक्तो राति मुक्तिं सुदुर्लभाम् ॥ धाशब्दोच्चारणाद्दर्गे धावत्येव हरेः पदम् । कृष्णवामांशसम्भूता राधा रासेश्वरी पुरा ॥ तस्याश्चांशांशकलया वभूवुर्देवयोषितः । रा इत्यादानवचनो धा च निर्व्वाणवाचकः ॥ यतोऽवाप्नोति मुक्तिञ्च सा च राधा प्रकीर्त्तिता । बभूव गोपीसंघश्च राधाया लोमकूपतः ॥ श्रीकृष्णलोमकूपैश्च बभूवुः सर्व्ववल्लवाः । राधा वामांशभागेन महालक्ष्मीर्बभूव सा ॥ चतुर्भुजस्य सा पत्नी देवी वैकुण्ठवासिनी । तदंशा राजलक्ष्मीश्च राजसम्पत्प्रदायिनी ॥ तदंशा मर्त्यलक्ष्मीश्च गृहिणाञ्च गृहे गृहे । शस्याधिष्ठातृदेवी च सा एव गृहदेवता ॥ स्वयं राधा कृष्णपत्नी कृष्णवक्षःस्थलस्थिता । प्राणाधिष्ठातृदेवी च तस्यैव परमात्मनः ॥ ब्रह्मादिस्तम्बपर्य्यन्तं सर्व्वं मिथ्यैव पार्व्वति । भज सत्यं परं ब्रह्म राधेशं त्रिगुणात् परम् ॥ परं प्रधानं परमं परमात्मानमीश्वरम् । सर्व्वाद्यं सर्व्वपूज्यञ्च निरीहं प्रकृतेः परम् ॥ स्वेच्छामयं नित्यरूपं भक्तानुग्रहविग्रहम् । तद्भिन्नानाञ्च देवानां प्राकृतं रूपमेव च ॥ तस्य प्राणाधिका राधा बहुसौभाग्यसंयुता । महद्बिष्णोः प्रसूः सा च मूलप्रकृतिरीश्वरी ॥ मानिनीं राधिकां सन्तः सदा सेवन्ति नित्यशः । मुलभं यत्पदाम्भोजं ब्रह्मादीनां सुदुर्लभम् ॥ स्वप्ने राधापदाम्भोजं न हि पश्यन्ति वल्लवाः । स्वयं देवी हरेः क्रोडे छाया रायाणकामिनी ॥ स च द्वादशगोपानां रायाणः परमः प्रिये । श्रीकृष्णांशश्च भगवान् विष्णुतुल्यपराक्रमः ॥ श्रीदामशापात् सा देवी गोलोकादागता महीम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे राधोपाख्यानं ४५ अध्यायः ॥ * ॥
अपि च । गर्ग उवाच । “शृणु नन्द प्रवक्ष्येऽहमितिहासं पुरातनम् । पुरा गोलोकवृत्तान्तं श्रुतं शङ्करवक्त्रतः ॥ श्रीदाम्नो राधया सार्द्धं बभूव कलहो महान् । श्रीदामा शापाद्दैत्यश्च गोपी राधा च गोकुले ॥ वृषभानुसुता सा च माता यस्याः कलावती । कृष्णस्यार्द्धाङ्गसम्भूता नाथस्य सदृशी सती ॥ गोलोकवासिनी सेयमत्र कृष्णाज्ञयाधुना । अयोनिसम्भवा देवी मूलप्रकृतिरीश्वरी ॥ मातुर्गर्भं वायुपूर्णं कृत्वा च मायया सती । वायुनिःसारणे काले धृत्वा च शिशुविग्रहम् ॥ आविर्बभूव सा सद्यः पृथ्व्यां कृष्णोपदेशतः । बर्द्धते सा व्रजे राधा शुक्ले चन्द्रकला यथा ॥ श्रीकृष्णतेजसोऽर्द्धेन सा च मूर्त्तिमती सती । एका मूर्त्तिर्द्विघा भूता भेदो वेदे निरूपितः ॥ इयं स्त्री न पुमान् किंवा सा वा कान्ता पुमानयम् । द्वे रूपे तेजसा तुल्ये रूपेण च गुणेन च ॥ पराक्रमेण बुद्ध्या वा ज्ञानेन सम्पदेन च । पुरतो गमनेनैव किन्तु सा वयसाधिका ॥ ध्यायते तामयं शश्वदिमं सा स्मरति प्रियम् । रचिता सास्य प्राणैश्च तत्प्राणैर्मूर्त्तिमानयम् ॥ अस्य राधानुसारेण गोकुलागमनं परम् । स्वीकारं सार्थकं कर्त्तुं गोलोके यत् कृतं पुरा ॥ कंसभीतिच्छलेनैव गोकुलागमनं हरेः । प्रतिज्ञापालनार्थञ्च भयेशस्य भयं कुतः ॥” * ॥
राधाशब्दस्य व्युत्पत्तिर्यथा —
“राधाशब्दस्य व्युत्पत्तिः सामवेदे निरूपिता । नारायणस्तामुवाच ब्रह्माणं नाभिपङ्कजे ॥ ब्रह्मा तां कथयामास ब्रह्मलोके च शङ्करम् । पुरा कैलासशिखरे मामुवाच महेश्वरः ॥ देवानां दुर्लभं नन्द निशामय वदामि ते । सुरासुरमुनीन्द्रानां वाञ्छितां मुक्तिदां पराम् ॥ रेफो हि कोटिजन्माघं कर्म्मभोगं शुभाशुभम् । आकारो गर्भवासञ्च मृत्युञ्च रोगमुत्सृजेत् ॥ धकारमायुषो हानिमाकारो भवबन्धनम् । श्रवणस्मरणोक्तिभ्यः प्रणश्यति न संशयः ॥ रेफो हि निश्चलां भक्तिं दास्यं कृष्णपदाम्बुजे । सर्व्वेप्सितं सदानन्दं सर्व्वसिद्धौघमीश्वरम् ॥ धकारः सहवासञ्च तत्तुल्यकालमेव च । ददाति सार्ष्णिं सारूप्यं तत्त्वज्ञानं हरेः स्वयम् ॥ आकारस्तेजसो राशिं दानशक्तिं हरौ यथा । योगशक्तिं योगमतिं सर्व्वकालहरिस्मृतिम् ॥ श्रुत्युक्तिस्मरणाद्योगान्मोहजालञ्च किल्विषम् । रोगशोकमृत्युमया वेपन्ते नात्र संशयः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३ अध्यायः ॥ तस्याः षोडशनामानि तेषां व्युत्पत्तिश्च यथा, नारद उवाच । “कानि षोडश नामानि राधिकाया जगद्- गुरोः । तानि मे वद शिष्याय श्रोतुं कौतूहलं मम ॥ श्रुतं नाम्नां सहस्रञ्च सामवेदनिरूपितम् । तथापि श्रोतुमिच्छामि त्वत्तो नामानि षोडश ॥ अभ्यन्तराणि तेषां वा तदन्यान्येव वा विभो । अहो पुण्यस्वरूपाणि भक्तानां वाञ्छितानि च ॥ नामानि तेषां व्युत्पत्तिं सर्व्वेषां दुर्लभानि च । पावनानि जगन्मातुर्जगतां गूढरूपिणी ॥ नारायण उवाच । राधा रासेश्वरी रासवासिनी रसिकेश्वरी । कृष्णप्राणाधिका कृष्णप्रिया कृष्णस्वरूपिणी ॥ कृष्णवामांशसम्भूता परमानन्दरूपिणी । कृष्णा वृन्दावनी वृन्दा वृन्दावनविनोदिनी ॥ चन्द्रावती चन्द्रकान्ता शतचन्द्रनिभानना । नामान्येतानि साराणि तेषामभ्यन्तराणि च ॥ राधेत्येवञ्च संसिद्धा राकारो दानवाचकः । स्वयं निर्व्वाणधात्री या सा राधा परिकीर्त्तिता ॥ रा च रासे च भवनाद्धा एव धारणादहो । हरेरालिङ्गनाधारात्तेन राधा प्रकीर्त्तिता ॥ रासेश्वरस्य पत्नीयं तेन रासेश्वरी स्मृता । रासे च वासो यस्याश्च तेन रासनिवासिनी ॥ सर्व्वांशा रसिकानाञ्च देवीनामीश्वरी परा । प्रवदन्ति पुरा सन्तस्तेन तां रसिकेश्वरीम् ॥ प्राणाधिका प्रेयसी सा कृष्णस्य परमात्मनः । कृष्णप्राणाधिका सा च कृष्णेन परिकीर्त्तिता ॥ कृष्णस्यासि प्रिया शान्ता कृष्णो वास्याः प्रियः सदा । सव्व दवगणैरुक्ता तेन कृष्णप्रिया स्मृता ॥ कृष्णरूपं संविधातुं या शक्ता चावलीलया । सर्व्वांशैः कृष्णसदृशी तेन कृष्णस्वरूपिणी ॥ वामार्द्धाङ्गेन कृष्णस्य या सम्भूता परा सती । कृष्णवामांशसम्भूता तेन कृष्णेति कीर्त्तिता ॥ परमानन्दराशिश्च स्वयं मूर्त्तिमती सती । श्रुतिभिः कीर्त्तिता तेन परमानन्दरूपिणी ॥ कृषिर्मोक्षार्थवचनो ण एवीत्कृष्टवाचकः ॥ आकारो दातृवचनस्तेन कृष्णा प्रकीर्त्तिता ॥ अस्ति वृन्दावनं यस्यास्तेन वृन्दावनी स्मृता । वृन्दावनस्याधिदेवी तेन राधा प्रकीर्त्तिता ॥ वृन्दः संघवचः सख्युराकारोऽप्यस्तिवाचकः । सखिवृन्दास्ति यस्याश्च सा वृन्दा परिकीर्त्तिता ॥ मुद्बाचको विनोदश्च सा यस्या अस्ति तत्र च । वेदा वदन्ति तां तेन वृन्दावनविनोदिनीम् ॥ नखचन्द्रावलीवक्रचन्द्रोऽस्ति यत्र सन्ततम् । तेन चन्द्रावली सा च कृष्णेन कीर्त्तिता पुरा ॥ कान्तिरस्ति चन्द्रतुल्या यदा यस्या दिवा- निशम् । सा चन्द्रकान्ता हर्षेण हरिणा परिकीर्त्तिता ॥ शरच्चन्द्रप्रभा यस्याश्चाननेऽस्ति दिवानिशम् । मुनिना कीर्त्तिता तेन शरच्चन्द्रप्रभानना ॥ इदं षोडशनामोक्तमर्थव्याख्यानसंयुतम् । नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे ॥ ब्रह्मणा च पुरा दत्तं धर्म्माय जनकाय मे । धर्म्मेण कृपया दत्तं मह्यमादित्यपर्व्वणि ॥ पुष्करे च महातीर्थे पुण्याहे देवसंसदि । राधाप्रभावप्रस्तावे सुप्रसन्नेन चेतसा ॥ इदं स्तोत्रं महापुण्यं तुभ्यं दत्तं महामुने । निन्दकायावैष्णवाय न दास्यसि महामुने ॥ यावज्जीवमिदं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः । राधामाधवयोः पादपद्मे भक्तिर्भवेदिह ॥ अन्ते लभेत्तयोर्द्दास्यं शश्वत् सहचरो भवेत् । अणिमादिकसिद्धिञ्च संप्राप्य नित्यविग्रहम् ॥ व्रतदानोपवासैश्च सर्व्वैर्नियमपूर्व्वकम् । चतुर्णाञ्चव वेदानां पाठैः सर्व्वार्थसंयुतैः ॥ सर्व्वेषां यज्ञतीर्थानां करणैर्विधिबोधितैः । प्रादक्षिण्येन भूमेश्च कृत्स्नाया एव सप्तधा ॥ शरणागतरक्षायामज्ञानज्ञानदानतः । देवानां वष्णवानाञ्च दर्शनेनापि यत् फलम् ॥ तदेव स्तोत्रपाठस्य कलां नार्हन्ति षोडशीम् । स्तोत्रस्यास्य प्रभावेन जीवन्मुक्तो भवेन्नरः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १७ अध्यायः ॥ राधानामोच्चारणानन्तरं कृष्णनामोच्चारण- विधिर्यथा, — नारद उवाच । “आदौ राधां समुच्चार्य्य पश्चात् कृष्णं विदुर्ब्बुधाः । निमित्तमस्य मां शक्तं वद भक्तजनप्रिय ॥ श्रीनारायण उवाच । निमित्तमस्य त्रिविधं कथयामि निशामय । जगन्माता च प्रकृतिः पुरुषश्च जगत्पिता ॥ गरीयसीति जगतां माता शतगुणैः पितुः । राधाकृष्णेति गौरीशेत्येवं शब्दः श्रुतौ श्रुतः ॥ कृष्णराधेशगौरीति लोके न च कदा श्रुतः । प्रसीद रोहिणीचन्द्र गृहाणार्घ्यमिदं मम ॥ गृहाणार्घ्यं मया दत्तं संज्ञया सह भास्कर । प्रसीद कमलाकान्त गृहाण मम पूजनम् ॥ इति दृष्टं सामवेदे कौथुमे मुनिसत्तम ॥ राशब्दोच्चारणादेव स्फीतो भवति माधवः । धाशब्दोच्चारतः पश्चाद्धावत्येव ससम्भ्रमः ॥ आदौ पुरुषमुच्चार्य्य पश्चात् प्रकृतिमुच्चरेत् । स भवेन्मातृगामी च वेदातिक्रमणे मुने ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ५२ अध्यायः ॥ तस्या निन्दायां दोषो यथा, —
“ये वा द्बिषन्ति निन्दन्ति पापिनश्च हसन्ति च । कृष्णप्राणाधिकां देव देवीञ्च राधिकां पराम् ॥ ब्रह्महत्याशतं ते च लभन्ते नात्र संशयः । तत्पापेन च पच्यन्ते कुम्भीपाके च रौरवे ॥ तप्ततैले महाघोरे ध्वान्ते कीटे च यन्त्रके । चतुर्द्दशेन्द्रावच्छिन्नं पितृभिः सप्तभिः सह ॥ ततः परमजायन्त जन्मैकं कोलयोनितः । दिव्यं वर्षसहस्रञ्च विष्ठाकीटाश्च पापतः ॥ पुंश्चलीनां योनिकीटास्तद्रक्तमलभक्षणाः । मलकीटाश्च तन्मानवर्षञ्च पूयभक्षकाः । वेदे च काण्वशाखायामित्याह कमलोद्भवः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ९७ अध्यायः ॥ राधास्वरूपं यथा, — यशोदोवाच । “हरौ च निश्चला भक्तिस्तद्दास्यं वाञ्छितं मम । तव नाम्नश्च व्युत्पत्तिं का वा त्वं वक्तमर्हसि ॥ राधिकोवाच । भवेद्भक्तिर्निश्चला ते हरेर्दास्यञ्च दुर्लभम् । लभस्व मद्बरेणापि कथयामि स्वनिर्णयम् ॥ षुरा नन्देन दृष्टाहं भाण्डीरे बटमूलके । मया च कथितो नन्दो निषिद्धश्च व्रजेश्वरः ॥ अहमेव स्वयं राधा छाया रायाणकामिनी । रायाणः श्रीहरेरंशः पार्श्वदप्रवरो महान् ॥ राशब्दश्च महद्विष्णोर्विश्वानि यस्य लोमसु । विश्वप्राणिषु विश्वेषु धा धात्रीमातृवाचकः ॥ धात्री माताहमेतेषां मूलप्रकृतिरीश्वरी । तेन राधा समाख्याता हरिणा च पुरा बुधैः ॥ अहं श्रीदामशापेन वृषभानुसुताधुना । शतवर्षञ्च विच्छेदो हरिणा सह साम्प्रतम् ॥ वृषभानुञ्च कृष्णस्य पार्श्वदप्रवरो महान् । पितणां मानसी कन्या मम माता कलावती ॥ अयोनिसम्भवाहञ्च मम माता च भारते । पुनः सार्द्धञ्च युष्माभिर्यास्यामि श्रीहरेः पदम् ॥ इति ते कथितं सर्व्वं व्रजं व्रज व्रजेश्वरि । व्रजेश्वरेण सहिता स्वामिना ज्ञानिना सति ! ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥ राधापार्व्वत्योरभेदो यथा, — पार्व्वत्युवाच । “किं वा प्रश्नं करिष्यामि त्वां राधां मङ्गला- लयाम् । गता ते विरहज्वाला श्रीदाम्नः शापमोक्षणे ॥ सततं तन्मनःप्राणा त्वय्येव मयि ते तथा । न ह्येवमावयोर्भेदः शक्तिपूरुषयोर्यथा ॥ ये त्वां निन्दन्ति मद्भक्तास्त्वद्भक्ताश्चापि मामपि । कुम्भीपाके च पच्यन्ते यावच्चन्द्रदिवाकरौ ॥ राधामाधवयोर्भेदं ये कुर्व्वन्ति नराधमाः । वंशहानिर्भवेत्तस्य पच्यन्ते नरकं चिरम् ॥ यान्ति शूकरयोनिञ्च पितृभिः शतकैः सह । षष्टिं वर्षसहस्राणि विष्ठायां कृमयस्तथा ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १२३ अध्यायः ॥ गोलोके तस्या आश्रमो यथा, —
“एतान् मनोरमान् दृष्ट्वा ते देवा गमनोन्मुखाः । जग्मुः शीघ्रं कियद्दूरं ददृशुः सुन्दरं ततः ॥ आश्रमं राधिकायाश्च रासेश्वर्य्याश्च नारद । देवाधिदेव्या गोपीनां वरायाश्चारु निर्म्मितम् ॥ प्राणाधिकायाः कृष्णस्य रम्याद्रम्यं मनोहरम् । सर्व्वानिर्व्वचनीयञ्च पण्डितैर्न निरूपितम् ॥ सुचारु वर्त्तुलाकारं षड्गव्यूतिप्रमाणकम् । शतमन्दिरसंयुक्तं ज्वलितं रत्नतेजसा ॥ अमूल्यरत्नसाराणां वरैर्विरचितं वरम् । दुर्लङ्घ्याभिर्गभीराभिः परिखाभिः सुशोभितम् ॥ कल्पवृक्षैः परिवृतं पुष्पोद्यानशतान्तरम् । सुमूल्यरत्नरचितं प्राकारैः परिवेष्टितम् ॥ सद्रत्नवेदिकायुक्तं युक्तैर्द्वारैश्च सप्तभिः । संयुक्तरत्नचित्रैश्च विचित्रैर्व्वर्त्तुलैर्मुने ॥ प्रधानद्बारसप्तभ्यः क्रमशः क्रमशो मुने । सर्व्वतोऽपि ततस्तत्र षोडशद्वारसंयुतम् ॥ देवा दृष्ट्वा च प्राकारं सहस्रधनुरुच्छ्रितम् । सद्रत्नरत्नकलससमूहैः सुमनोहरम् ॥ सुदीप्तं तेजसा रम्यं परमं विस्मयं ययुः । ततः प्रदक्षिणीकृत्य कियद्दूरं ययुर्मुदा ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४ अध्यायः ॥ तस्या जन्मतिथिर्यथा, —
“भाद्रस्य कृष्णपक्षे तु हरिजन्माष्टमी यदा । तस्याः परे तु या शुक्ला तस्यां जाता हरिप्रिया ॥ वृषभानुपुरी नाम्ना सर्व्वरत्नमयी शुभा । सुवर्णमणिमाणिक्यविचित्रभवनाङ्गना ॥ अणिमादिसुखैश्वर्य्यपरिपूर्णमनोहरा । चित्रध्वजपताकादिविचित्रा चित्रनिर्म्मिता ॥ चिदानन्दस्वरूपा सा चिदानन्दप्रदायिनी । आनन्दकलिला नार्य्यो यत्र तिष्ठन्ति सर्व्वदा ॥ विचित्रवेशालङ्कारा विचित्रवसनाम्बरा । नानावेशविचित्राङ्गा प्रमदामोददायिनी ॥ सर्व्वलक्षणसम्पन्ना राधा नाम्ना विनोदिनी । जगतां मोहिनी देवी गुह्यगुह्यातिसुन्दरी । मूढानामसताञ्चैव न कथ्यं मुनिसत्तम ॥ नारद उवाच । प्रणिपत्य महाभाग पृच्छामि तव किङ्करः । सा लक्ष्मीः किं सुरवधूर्महालक्ष्मीः सरस्वती ॥ विद्या किमन्तरङ्गाथ वैष्णवी प्रकृतिः किमु । वेदकन्या देवकन्या मुनिकन्याथवा वद ॥ सदाशिव उवाच । कोटिकोटिमहालक्ष्मीर्लक्ष्मीः का वा परा वरा । निन्दिता यत्पदाम्भोजे कथिता मुनिसत्तम ॥ अपरं किं निगदेऽहमेकवक्त्रेण नारद । श्रीराधारूपलावण्यगुणादीन् वक्तुमक्षमः ॥ तत्तद्रूपादिमाहात्म्यं लज्जेऽहमपि नारद । त्रैलोक्ये तु समर्थो हि न मातुं वक्तुमर्हति ॥ तद्देहरूपमाधुर्य्यं जगन्मोहनमोहनम् । यद्यनन्तमुखोऽपि स्यां तद्बक्तुं नास्ति मे गतिः ॥ लक्षशः कमला दास्यो यस्याः सा लाक्षकी मता । एवं शतसहस्राणामीश्वरी राधिका परा ॥ नारद उवाच । प्रभो श्रीराधिकाजन्ममाहात्म्यं सर्व्वतः परम् । तदहं श्रोतुमिच्छामि समस्तं भक्तवत्सल ॥ कथ्यतां मे महाभाग व्रतानाञ्च व्रतोत्तमम् । ध्यानं वा कीदृशी पूजा स्तुतिर्वापि वदस्व मे ॥ तत्सर्व्वं श्रोतुमिच्छामि कथ्यतां मे सदाशिव । चर्य्यां पूजाविधानञ्च विशेषमर्च्चनं भव ॥ यन्त्रं मन्त्रं स्तुतिर्ध्यानं पूजनं यत्र निर्म्मितम् । पूजने किं विधानञ्च तत्तत्सेवार्च्चने विधौ ॥ शिव उवाच । वृषभानुपुरीराजा वृषभानुर्महाशयः । महाकुलप्रसूतोऽसौ सर्व्वशास्त्रविशारदः ॥ महाशयो धनी श्रीमानणिमाद्यष्टवैभवः । वैश्यः सदन्तःकरणः कुलीनः कृष्णदैवतः ॥ तस्य भार्य्या महाभागा श्रीमत्श्रीकीर्त्तिदाह्वया । रूपयौवनसम्पन्ना महाराजकुलोद्भवा ॥ महालक्ष्मीस्वरूपा सा भव्या परमसुन्दरी । महापतिव्रता कार्ष्णा सर्व्वविद्यागुणान्विता ॥ तस्यां श्रीराधिका जाता श्रीमद्वृन्दावनेश्वरी । भाद्रे मासि सिताष्टम्यां मध्याह्ने शुभदायिनी ॥ वेदागमपुराणादिगीता या कृष्णवल्लभा । सदा कृष्णप्रिया साध्वी श्रीकृष्णानन्ददायिनी ॥ शृणु मत्तो महाभाग पूजनं भजनं तथा । कर्त्तव्यं यदनुष्ठानं राधाजन्मगहोत्सवः ॥ समर्च्चय सदा राधां जन्मव्रतपरायणैः । तत् समग्रं प्रवक्ष्यामि ध्यानादिकमनुक्रमात् ॥ सर्व्वदा पश्चिमद्वारे श्रीराधाकृष्णमन्दिरे । ध्वजस्रग्वस्त्रकलसपताकातोरणादिभिः ॥ नानासुमङ्गलद्रव्यैर्यथाविधि प्रवर्त्तते । सुवासितगन्धपुष्पैर्धूपैश्च धूपितैर्गृणन् ॥ मध्ये पञ्चवर्णचूर्णैर्मण्डपं ससरोरुहम् । सुषोडशदलाकारं तत्र निर्म्माय यत्नतः ॥ दिव्यासने पद्ममध्ये पश्चिमाभिमुखीं स्थिताम् । श्रीयुग्ममूर्त्तिं सूपास्य ध्यानपाद्यादिभिः क्रमात् ॥ भक्तैः सह सजातीयैः शक्यानुसारवस्तुभिः । तद्भक्तः पूजयेद्भक्त्या तां सदा संयतेन्द्रियः ॥” अथ ध्यानम् । “हेमेन्दीवरकान्तिमञ्जुलतरं श्रीमज्जगन्मोहनं नित्याभिर्ललितादिभिः परिवृतं सन्नीलपीता- म्बरम् । नानाभूषणभूषणाङ्गमधुरं कैशोररूपं युगं गान्धर्व्वाजनमव्ययं सुललितं नित्यं शरण्यं भजे ॥ युग्गमूर्त्तिमिति ध्यात्वा शालग्रामेऽथवा पुनः । साक्षात् शैलादिमूर्त्तौ वा मनोमय्यां समर्च्चयेत् ॥ ततो मण्डलपूजाञ्च तयोः सम्मुखतः क्रमात् । कुर्य्याद्भक्तः प्रयत्नेन ध्यानपाद्यादिभिः सदा ॥ ललिता पश्चिमे पूज्या पीतवर्णदलेऽपरा । चन्द्रावतीं शुक्लदले तद्वामे पूजयेत् सुधीः ॥ वायव्ये श्यामलां देवीं कृष्णवर्णदलेऽर्च्चयेत् । तद्वामे चित्ररेखाख्यां शुक्लवर्णदले ततः ॥ उत्तरे श्रीमती त्वर्च्या रक्तवर्णदले तथा । तद्वामपार्श्वे चन्द्राख्यां नीलवर्णदलेऽर्च्चयेत् ॥ रक्तवर्णदलेऽप्यर्च्या ईशाने श्रीहरिप्रिया । तस्या वामे शुक्लदले पूज्या मदनसुन्दरी ॥ पीतवर्णदले पूर्ब्बे विशाखामर्च्चयेत्ततः । प्रियां तस्या वामपार्श्वे शुक्लवर्णदलेऽर्च्चयेत् ॥ अग्निकोणे श्यामवर्णां दले सव्यां समर्च्चयेत् । तद्वामे श्रीमधुमतीं शुक्लवर्णदलेऽर्च्चयेत् ॥ पूजयेद्दक्षिणे पद्मां रक्तवर्णदले तथा । शशिरेखाञ्च तद्बामे नीलवर्णदलेऽर्च्चयेत् ॥ पूजयेन्नैरृते भद्रां रक्तवर्णदले ततः । रसप्रियाञ्च तद्वामे शुक्लवर्णदलेऽर्च्चयेत् ॥ * ॥
श्रीराधाप्रियसङ्गिनीं विधुमुखीं कृष्णप्रियां प्रेयसीं हेमाभां परिवादिनीं सुमधुरध्वानां सुवेशा- म्बराम् । सद्रत्नाभरणैर्मनोज्ञसुतनुं नित्यां जगन्मोहिनीं वन्दे श्रीललितां कुरङ्गनयनीं पीताम्बरेणावृ- ताम् ॥ १ ॥ श्यामां श्यामपरायणां वरतनुं चामीकराङ्ग- च्छटां मञ्जीरैर्मधुरध्वनिंपरिलसच्चन्द्राननां सुस्वराम् । सद्रत्नाभरणां सरोजनयनीं शुक्लांशुकेनावृतां ध्यायेत् श्रीललितासखीं सुचिवुकां चन्द्रावती- मुत्तमाम् ॥ २ ॥ कान्त्या काञ्चनसन्निभां सुललितां कृष्णाम्बरं बिभ्रतीं नानाभूषणमञ्जुलाञ्च सुदतीं मार्द्दङ्गिकीं सुन्द- रीम् । श्रीवृन्दाविपिनेश्वरीं प्रियसखीं भव्यां शशाङ्का- ननां वेणीचारुसुमल्लिकास्रजममूं नित्यं भजे श्यामलाम् ॥ ३ ॥ श्रीकृष्णप्रियवल्लभां शशिमुखीं सच्छब्दडम्फा- न्वितां शुद्धस्वर्णशरीरकान्तिमतुलां शुक्लाम्बरेणावृताम् । स्वर्णाद्याभरणां सदा पुलकिनीं श्रीकृष्णभावेन वै गायन्तीं मधुरस्वरैरविरतं श्रीचित्रलेखां भजे ॥ ४ ॥ कनकनिभशरीरां बिभ्रतीं रक्तवस्त्रं ललितनलिननेत्रां चारुभूषाङ्गशोभाम् । सुमधुरपिकवाक्यां चन्द्रवक्त्रां सुवेशां मधुरिपुनिजदासीं श्रीमतीं तां हि वन्दे ॥ ५ ॥ वृन्दावनेशनिजसेवनसौख्यदासीं रम्यां सुनीलवसनां सुरवावयन्त्राम् । नानाविभूषिततनुं स्फुरदम्बुजाक्षीं चन्द्रां भजे सकलरागमनोज्ञगानाम् ॥ ६ ॥ सुवर्णवर्णां शुकधारिणीं ता- मुपाङ्गयन्त्रां मणिभूषणाङ्गीम् । हरिप्रियां मञ्जुलपत्रनेत्रां भजेऽहमीड्यां कनकाङ्गशोभाम् ॥ ७ ॥ रवावकलवादिनीं सकलरागसंगायिनीं सुचारुमणिकुण्डलां शरदपूर्णचन्द्राननाम् । सुरत्नवरभूषणां रुचिरशुभ्रपट्टाम्बरां भजे मदनसुन्दरीं कनकवर्णदेहां शुभाम् ॥ ८ ॥ सुतानज्ञां गीते भ्रमरकलकण्ठीं सुचतुरां जगद्वन्द्यां वेल्लन्नलिननयनामिन्दुवदनाम् । विशाखां गौराङ्गीं कलितमुरलीं पीतवसनां भजे श्यामां सेव्यां सकलगुणपूर्णां सुखमयीम् ॥ ९ सुचामीकराभूषणाढ्यां सुवेशां सुसङ्गीतविद्यासुधीरां वरेण्याम् । सुवंशीसुगानां सुहेमाङ्गशोभां भजे श्रीप्रियां शुक्लवस्त्रां मनोज्ञाम् ॥ १० ॥ गान्धर्व्वानिजदासिकां सुगदवाग्यन्त्रं सदा बिभ्रतीं मञ्जुस्वर्णविभूषितां वरतनुं पाथोजनेत्रां वराम् । ध्यायेत् कृष्णपदारविन्दमधुपीं कृष्णाम्बरेणा- वृतां संगीते मधुरवरामविरतं सैव्यां मनोहारि- णीम् ॥ ११ ॥ रुचिरमधुमतीं तां तप्तचामीकराभां पिककलरवकण्ठीं शुक्लवस्त्रं दधानाम् । तिलकुसुमसुनासां चारुहेमाङ्गभूषां युगलचरणसेवातत्परामाभजेऽहम् ॥ १२ ॥ रत्नालङ्कारदेहां जितकुसुमरुचीमङ्गलावण्य- रूपै- र्भव्यां सङ्गीतविद्यासुनिपुणरसिकां तानमानाति- विज्ञाम् । शारङ्गीयन्त्रगानां कनकनिभतनुं सर्व्वदा कृष्ण- सेवीं वन्दे पद्मां सुवेशां शशधरवदनां बिभ्रतीं रङ्ग- वस्त्रम् ॥ १३ ॥ शशिरेखां मृदङ्गञ्च वादयन्तीं मुहुर्मुहुः । रसालापस्वरूपाञ्च रसप्रेमैकसंयुताम् ॥ १४ ॥ भव्यां श्रीशशिरेखिकां सुखमकां यन्त्रादि- गानांवरां वन्देऽहं मधुरस्वरां परमिकां लावण्यसारा- न्विताम् । नानायन्त्रविशारदां वरतनुं पट्टाम्बरेणावृतां फुल्लेन्दीवरलोचनामविरतं ध्याये जगन्मो- हिनीम् ॥ १५ ॥ श्रीयन्त्रं स्वरमण्डलं कलरवं गाने सदा बिभ्रतीं श्रीभद्रां मधुरस्वरां सुललितां सद्रक्तवस्त्रावृताम् । राजत्स्वर्णरुचिं विभूषणवरैरङ्गैः सदा शोभितां ध्याये श्रीयुगसेविकां परमिकां ह्लादैकमग्नां सदा ॥ १६ ॥ राधाकृष्णपदारविन्दमधुपीं सद्भृङ्गतुल्यार्थिनीं नानाभूषणभूषिताङ्गरुचिरां सद्रक्तवस्त्रां शुभाम् । ध्याये सन्ततकृष्णभावललितां केयूरहेमाङ्गदां स्वर्णाङ्गीञ्च रसप्रियां सुखमयीं सर्व्वाङ्गशोभा- न्विताम् ॥ १७ ॥ मधुस्वरां कोकिलभृङ्गगानां सतुम्बरीयन्त्रविधारिणीञ्च । वनप्रियां शुक्लसुचीनवस्त्रां भजे हरिद्राङ्गसमञ्जुशोभाम् ॥ १८ ॥ एवं ध्यात्वा पूजयित्वा ललिताद्या यथाक्रमात् ॥ पाद्यादिभिः सोपचारैर्विधिवद्भक्तितत्परः ॥ सङ्गिन्यो ललितादीनां दलात्पश्चिमतो मुने ! । प्रणवादिनमोऽन्तेन संप्रदानपदेन वै । तत्तन्नाम्ना तु मनुना पुष्पगन्धादिभिर्मुने ! ॥” इति पाद्मेउत्तरखण्डे श्रीराधाजन्माष्टमीव्रत- कथनमाहात्म्यं नाम १६२ अध्यायः ॥ श्रीसदाशिव उवाच । “प्रत्येकेऽष्टौ पूजयेद्वै क्रमतस्तु दले दले । शृणु नाम्ना कथ्यते ताश्चाष्टाविंशाधिकं शतम् । इन्दुमुखी रसज्ञा च शुभदा सुमुखी तथा । वल्लवी चन्द्रिका चारुचतुरा च सुचञ्चला ॥ मधुरा हस्तकमला तथा मधुरभाविनी । विलासिनी रसवती तथा खञ्जनलोचना ॥ सुखदा चम्पकलिका रसदा रसमञ्जरी । सदा सुमञ्जरी शीला चन्द्रा चन्द्रप्रभावती ॥ वासन्ती मालती जाती चन्द्रकान्ती सुकुन्तला । रम्भा भ्रमरगम्भीरा सुशीला च सुवेशिनी ॥ आमलकी सुधाकण्ठी श्रिता च श्रीरतिप्रिया । शुकप्रिया मधुकरी सुवेशा चामृतोद्भवा ॥ मुरलीवल्लभा वृन्दा पारिजातप्रिया शुभा । पञ्चस्वरा रत्नमाला मदिरा रासवल्लवी ॥ मातङ्गगमनी तारावती कुण्डलधारिणी । केशरी मित्रवृन्दा च लक्षणाच्युतमालिका ॥ मायावती कौशिकी च कोमलाङ्गी सुचन्दनी । पीयूषभाषिणी सत्यवती च कुञ्जवासिनी ॥ कपोतमालिका लोपामुद्रा च किंशुकप्रिया । दलावती कुङ्कुमा च कमला च मदालसा ॥ तिलोत्तमा च सावित्री बहुला प्रियवादिनी । मुक्तावली चित्ररेखा सुमित्रा लोककुण्डला ॥ अरुन्धती चित्रवती श्रीरक्ता पद्मगन्धिनी । मेनका कलिका रङ्गकेतकी काममूर्च्छनी ॥ कुमुदप्रिया च तानज्ञा तथा नृत्यविलासिनी । हिरावती हारकण्ठी सिंहमध्या सुलोचना ॥ नन्दव्या नन्दकलिका सुनन्दा नन्ददायिनी । कुरङ्गाक्षी च सुश्रोणी केलिलोला प्रियंवदा ॥ श्यामाराध्या श्यामसेव्या कस्तूरी मानभञ्जिनी । विचित्रवसना रत्नमञ्जीरा मञ्जुकिङ्किणी ॥ पिकस्वरा भृङ्गगाना तथा रासविहारिणी । श्रीकृष्णदक्षिणे पूज्या यत्नात् चन्द्रावली ततः । ध्यानपाद्यादिभिः सम्यक्प्रकारेण च पूजकैः ॥ हेमाभां मधुरस्वरां विधुमुखीं गान्धर्व्वविद्या- रतां नानामूषणभूषिताङ्गमधुरां जातीसुमल्लीस्रजम् । वीणायन्त्रसुवादिनीं वरतनुं चित्राम्बरं बिभ्रतीं ध्याये कृष्णपरायणां सुचिवुकां चन्द्रावलीं मञ्जुलाम् ॥ एवं राधाजन्मतिथौ कुर्य्यान्मण्डलपूजनम् । कार्ष्णादीन् वैष्णवान् सर्व्वान् यत्नतः परि- पूजयेत् ॥ एवं राधाकृष्णपूजां तयोर्मण्डलपूजनम् । प्रत्यब्दे यत्नतः कुर्य्यात् कार्ष्णे रासमहोत्सवे ॥ न्यूनातिरिक्तं देवर्षे ! न कर्त्तव्यं कदाचन । श्रीमत्कृष्णैकतानेनावश्यं तेनैव सर्व्वदा ॥ नाहूयेत् शैवशाक्तादीन् राधाजन्ममहोत्सवे । पाषण्डान् पतितान् कोलानन्त्यजान्न निमन्त्रयेत् ॥ विना भागवताँल्लोकान्न च तत्र प्रवेशयेत् । गन्धपुष्पादिभिर्माल्यैश्चन्दनैस्तन्निवेदितैः ॥ नानापराधभीतस्तु भक्तांस्तांस्तत्र चार्च्चयेत् । तत्तन्महाप्रसादैश्च भक्ष्यपेयादिभिस्तथा ॥ तत्तन्मण्डलपूजायाः कार्ष्णो नान्यांश्च भोजयेत् । वहिर्मुखान् श्रीकृष्णस्य गान्धर्व्वाभक्तितत्परः ॥ कार्ष्णादीन् वैष्णवान् भक्त्या भोजयेत् पूजयेत्तथा । तन्नैवेद्यैर्गन्धपुष्पैर्माल्यैर्मलयजादिभिः ॥ सजातीयैर्भक्तवृन्दैः समं तत्र महोत्सवम् । दिवा कुर्य्यात् प्रयत्नेन राधाभक्तिपरायणः ॥ महाप्रसादं भुञ्जीत दिनान्ते चरणोदकम् । पूजां कृत्वा पिबेत् कार्ष्णैः सार्द्बमानन्दितैस्ततः ॥ रात्रौ जागरणं कुर्य्याद्राधाकृष्णेति वा स्मरन् । पूजयेन्मूर्त्तिमारोप्य रूप्यस्वर्णादिसंस्कृताम् ॥ अकृत्वान्यकथालापं पूराणाद्यनुकीर्त्तनम् । श्रवणीयं प्रयत्नेन नारीभ



Correction: