संस्कृत-शब्दकोशः

राम रामकर्पूरक

रामकरी

शब्दकल्पद्रुमः

रामकरी || स्त्री रामकली रागिणी । इति हला- युधः ॥ (क्वचित् रामकिरीत्यपि पाठः । यथा, सङ्गीतदर्पणे रागाध्याये । अथ रामकिरी । “षड्जग्रहांशकन्यासा पूर्णा रामकिरी मता । मूर्च्छना प्रथमा ज्ञेया करुणे सा प्रयुज्यते ॥ रिधत्यक्ताथवा प्रोक्ता कैश्चित् पञ्चमवर्जिता । त्रिविधा सा समुद्दिष्टा सम्पूर्णा षाडवौडवा ॥” अस्या ध्यानम् । “हेमप्रमा भासुरभूषणा च नीलं निचोलं वपुषा वहन्ती । कान्ते समीपे कमनीयकण्ठा मानोन्नता रामकिरी मतेयम् ॥” उदाहरणम् । स रि ग म प घ नि स । सम्पूर्णा ॥ अथवा स ग म प नि स । औडवा ॥ अथवा स रि ग म ध नि स । साडवा ॥ इति रामकिरी ॥)
अस्य अन्यत् विवरणं रागशब्दे द्रष्टव्यम् ॥



Correction: