वाचस्पत्यम्
रामच्छर्दनक || पु० राममभिरामं छर्दयति छृद—णिच्—ण्वुल् । मदनवृक्षे (मयनागाछ) भावप्र० ।
शब्दकल्पद्रुमः
रामच्छर्द्दनकः || पुं, (रामं मनोज्ञत्वं छर्द्दयति । छर्द्दि + ल्युः । स्वार्थे कन् ।)
मदनवृक्षः । इति भावप्रकाशः ॥ क्वचित् पुस्तके रामाच्छर्दनकः इति च पाठः ॥ (गुणादयोऽस्य मदनशब्दे विज्ञेयाः ॥)