संस्कृत-शब्दकोशः

रामपूग रामभद्र

रामबाण

वाचस्पत्यम्

रामबाण ||‍ पु० रसभेदे भावप्र० । ||‍“पारदामृतलवङ्गगन्धक मागयुग्ममरिचेन मिश्रितम् । तत्र जातिफलमर्द्धभागिकं तिन्तिलीफलरसेन मर्द्दितम् । वह्निमान्द्यदशवक्त्रनाशनो रामबाण इति विश्रुतो रसः । संग्रहग्रहणिकुम्भकर्णकमामवातखरदूषणं जयेत् । दीयते तु स्वबलानुमानतः सद्य एव जठराग्निदीपन । रोचकः कफकुलान्तकारकः श्वासकासवमिजन्तुनाशनः” भावप्र० ।


शब्दकल्पद्रुमः

रामबाणः || पुं, (रामस्य बाण इव सफलत्वात् ।)
औषधविशेषः । यथा । रसेन्द्रचिन्तामणौ । “पारदामृतलवङ्गगन्धकं भागयुग्ममरिचेन मिश्रितम् । तत्र जातिफलमर्द्धभागिकं तित्तिलीफलरसेन मर्द्दितम् ॥ वह्निमान्द्यदशवक्त्रनाशनो रामबाण इति विश्रुतो रसः । संग्रहग्रहणीकुम्भकर्णक- मामवातखरदूषणं जयेत् ॥ दीयते तु चणकानुमानतः सद्य एव जठराग्निदीपनः । रोचकः कफकुलान्तकारकः श्वासकासवमिजन्तुनाशनः ॥” पाराभागः १ विषभागः १ लवङ्गभागः १ गन्धकभागः १ मरिचभागः ८ जायफलभागः २ । रामबाणो रसोऽजीर्णे । इति भावप्रकाशः ॥ (शरवृक्षभेदः । इति राजनिर्घण्टः ॥ राम- शरश्च ॥)



Correction: