वाचस्पत्यम्
रामभद्र || पु० राम एव भद्रः मङ्गलदायकत्वात् । श्रीरामे “रामेति रामचन्द्रेति रामभद्रेति वा स्मरन्निति” पद्मपु० ।
शब्दकल्पद्रुमः
रामभद्रः || पुं, (राम एव भद्रो मङ्गलजनकत्वात् ।)
श्रीरामः । इति शब्दरत्नावली ॥ (यथा, कथा- सरित्सागरे । ३४ । २३६ । “लोकश्च सर्व्वदा रक्ष्यस्तत्प्रवादेन किं पुरा । रामभद्रेण शुद्धापि त्यक्ता देवी न जानकी ॥”)