शब्दकल्पद्रुमः
रामसेनकः || पुं, भूनिम्बः । (अस्य पर्य्यायो यथा, — “किराततिक्तः कैरातः कटुतिक्तः किरातकः । काण्डतिक्तो नार्य्यतिक्तो भूनिम्बो रामसेनकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) कट्फलः । इति राजनिर्घण्टः ॥