वाचस्पत्यम्
राश || शब्दे भ्वा० आ० अक० सेट् । राशते अराशिष्ट ऋदित् चङि न ह्रस्वः ।
शब्दकल्पद्रुमः
राश || ऋ ङ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।)
दन्त्यान्तोऽयमिति गद- सिंहः । रासभः स्वरः । दुर्गसिंहन्तु इमं तालव्यान्तं मत्वा उणादौ ह्नस्वं कृत्वा रश्मि- शब्दं व्युत्पादितवान् । ऋ, अरराशत् । ङ, राशते । इति दुर्गादासः ॥