शब्दकल्पद्रुमः
राशिव्यवहारः || पुं, (राशेर्व्यवहारः ।)
शस्य- राशिपरिमाणज्ञापकाङ्कः । तद्विवरणं यथा, — अथ राशिव्यवहारे करणसूत्रं वृत्तम् । “अनणुषु दशमांशोऽणुष्वथैकादशांशः परिधिनवमभागः शूकधान्येषु वेधः । भवति परिधिषष्ठे वर्गिते वेधनिघ्ने घनगणितकराः स्युर्म्मागधास्ताश्च खार्य्यः ॥” उदाहरणम् । “समभुवि किल राशिर्यः स्थितः स्थूलधान्यः परिधिपरिमितिः स्याद्धस्तषष्टिर्यदीया । प्रवद गणक खार्य्यः किंमिताः सन्ति तस्मि- न्नथ पृथगणुधान्यैः शूकधान्यैश्च शीघ्रम् ॥” अथ स्थूलधान्यराशिमानावबोधनाय ६० न्यासः अनणुधान्यराशिः वेधः ६ परिधिः ६० । वेधः ६ । परिधेः षष्ठांशः १० । वर्गितः १०० । वेध ६ निघ्नः । लब्धाः खार्य्यः ६०० । अथाणुधान्यराशिमानानयनाय ६० न्यासः अणुधान्यराशिः वेधः ६०॑११ परिधिः ६० । वेधः ६०॑११ । जातं फलम् ५४५ ५॑११ । अथ शूकधान्यराशिमानानयनाय ६० न्यासः शूकधान्यराशिः वेधः २०॑३ परिधिः ६० । वेधः २०॑३ । खार्य्यः ६६६ २॑३ । अथ भित्त्यन्तर्वाह्यकोणसंलग्नराशिप्रमाणानयने करणसूत्रं वृत्तम् । “द्बिवेदसत्रिभागैकनिघ्नात्तु परिधेः फलम् । भित्त्यन्तर्वाह्यकोणस्थराशेः खगुणभाजितम् ॥” उदाहरणम् । “परिधिर्भित्तिलग्नस्य राशेस्त्रिंशत्करः किल । अन्तःकोणस्थितस्यापि तिथितुल्यः करः सखे ॥ वहिः कोणस्थितस्यापि पञ्चघ्ननवसम्मितः । तेषामाचक्ष्वमेक्षिप्रं घनहस्तान् पृथक् पृथक् ॥” अत्रापि स्थूलादिधान्यानां राशिमानाव- बोधनाय स्पष्टक्षेत्रत्रयम् । तत्रादावनणुधान्यराशिमानबोधकं क्षेत्रम् । न्यासः परिधिः ४५ नहिःकोणराशिः वेधः ६ अनणुधान्यराशयः परिधिः १५ वेधः ६ अन्तःकीणराशिः परिधिः ३० वेधः ६ मित्तिराशिः अत्राद्यस्य परिधिः ३० । द्विनिघ्नः ६० । अन्यः १५ । चतुर्घ्नः ६० । अपरः ४५ । सत्रि- भागैक ४॑३ निघ्नः ६० । एषा वधः ६ । एभ्यः फलं तुल्यमेतावन्त्य एव खार्य्यः ६०० । एतत्- खस्वगुणेन भक्तं जातं पृथक् पृथक् फलम् ३०० । १५० । ४५० ॥ अथाणुधान्यराशिमानानयनाय न्यासः परिधिः ४५ नहिःकोणरशिः वेधः ६०॑११ अणुधान्यराशिः परिधिः १५ वेधः ६०॑११ अन्तःकोणराशिः परिधिः ३० वेधः ६०॑११ मित्तिराशिः पूर्ब्बवत्क्षेत्रत्रयाणां स्वगुणगुणितपरिधिः ६० । वेधः ६०॑११ । फलानि २७२ ८॑११ । १३६ ४॑११ । ४०९ १॑११ । अथ शूकधान्यराशिमानानयनाय न्यासः परिधिः ४५ नहिःकोणराशिः वेधः २०॑३ शूकधान्यराशयः परिधिः १५ वेधः २०॑३ अन्तःकोणुराशिः परिधिः ३० वेधः २०॑३ मित्तिराशिः अत्रापि पूर्ब्बवत् क्षेत्रत्रयाणां स्वगुणगुणितः परिधिः ६० । वेधः २०॑३ । फलानि ३३३ १॑३ । १६६ २॑३ । ५०० । इति लीलावत्यां राशिव्यवहारः समाप्तः ॥