वाचस्पत्यम्
राष्ट्रिका || स्त्री राज—ष्ट्रन् षित्त्वात् ङीष् स्वार्थे क । कण्ठ- कारिकायाम् अमरः ।
शब्दकल्पद्रुमः
राष्ट्रिका || स्त्री (राष्ट्रं उत्पत्तिस्थानत्वनास्त्यस्या इति । राष्ट्र + ठन् । टाप् ।)
कण्टकारिका । इत्यमरः । २ । ४ । ९३ ॥ (पुं, राष्ट्रवासी । जानपदः । यथा, मनुः । १० । ६१ । “यत्र त्वेते परिध्वंसा जायन्ते वर्णदूषकाः । राष्ट्रिकैः सह तद्राष्ट्रं क्षिप्रमेव विनश्यति ॥” राष्ट्रपतिः । यथा, हरिवंशे । १८३ । २७ — २८ । “कुम्भाण्ड ! मन्त्रिणां श्रेष्ठ ! प्रीतोऽस्मि तव सुव्रत । सुकृतन्ते विजानामि राष्ट्रिकोऽस्तु भवानिह ॥ सज्ञातिपक्षः सुसुखी निर्व्वृतोऽस्तु भवानिह । राज्यञ्च ते मया दत्तं चिरं जीव ममा- श्रयात् ॥”)