संस्कृत-शब्दकोशः

राष्ट्रिका राष्ट्रीय

राष्ट्रिय

वाचस्पत्यम्

राष्ट्रिय ||‍ पु० राष्ट्रे भवः घ । नाट्योक्ता १ राजश्याले । छ राष्ट्रीय तत्रार्थे । उभावपि २ राष्ट्रभवे त्रि० ।


शब्दकल्पद्रुमः

राष्ट्रियः || पुं, (राष्ट्रेऽधिकृतः । राष्ट्र + “राष्ट्रा- वारपाराद् घखौ ।” ४ । २ । ९३ । इति घः । यद्वा, राष्ट्रे जातः । “तत्र जातः ।” ४ । ३ । २५ । इति घः ।)
नाट्योक्त्यौ राजश्यालः । इत्यमरः । १ । ७ । १४ ॥ (राष्ट्राध्यक्षः । यथा, महाभरते । १२ । ८५ । १२ । “ततः संप्रेषयेद्राष्ट्रे राष्ट्रियाय च दर्शयेत् ॥”)



Correction: