वाचस्पत्यम्
रास || पु० रस—घञ् रास—घञ् वा । १ शब्दे, २ ध्वनौ शृङ्ख- लाबन्धवत् द्वयोर्द्वयोर्मध्यस्थित्या ३ क्रीडाभेदे, ४ कोला- हले च मेदि० ।
वाचस्पत्यम्
रास || शब्दे भ्वा० आ० अक० सेट् । रासते अरासिश्च ऋदित् चङि न ह्रस्वः । राममः । अयं तालव्यान्त इत्यन्ये ।
शब्दकल्पद्रुमः
रास || ङ ऋ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।)
दन्त्यान्तोऽयमिति गद- सिंहः । रासभः खरः । दुर्गसिंहस्त्विमं ताल- व्यान्तं मत्वा उणादौ ह्नस्वं कृत्वा रश्मिशब्दं व्युत्पादितवान् । ऋ, अररासत् । ङ, रासते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
रासः || पुं, (रासनमिति रासतेऽत्रेति वा । रास शब्दे + भावे अधिकरणे वा घञ् ।)
कोला- हलः । ध्वानः । भाषाशृङ्खलकः । गोपानां क्रीडाभेदः । इति मेदिनी । से, ११ ॥ तस्य विधिर्यथा, —
“कार्त्तिकीपूर्णिमायाञ्च कृत्वा तु रासमण्डलम् । गोपानां शतकं कृत्त्वा गोपीनां शतकन्तथा ॥ शिलायां प्रतिमायां वा श्रीकृष्णं राघया सह । भारते पूजयेत् कृत्वा चोपहाराणि षोडश ॥ गोलोके च वसेत् सोऽपि यावद्वै ब्रह्मणो वयः । भारतं पुनरागत्य हरिभक्तिं लभेद्ध्रुघम् ॥ क्रमेण सुदृढां भक्तिं लब्ध्वा मन्त्रं हरेरपि । देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति च ॥ तत्र कृष्णस्य सारूप्यं संप्राप्य पार्श्वदो भवेत् । पुनस्तत्पतनं नास्ति जरामृत्युहरो महान् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २५ अध्यायः ॥ विस्तारस्तु श्रीकृष्णजन्मखण्डे २८ अध्याये श्रीमद्भागवतीयरासपञ्चाध्यायेषु च द्रष्टव्यः ॥ * ॥
कस्यचिन्मते कल्पतरुयात्रेयम् । अस्य विधि- र्यथा, —
“कार्त्तिके पौर्णमास्यान्तु रासयात्रा महानिशि । नन्दसूनोः प्रकर्त्तव्या महाविभवविस्तरैः ॥ इह लोके सुखं प्राप्य अन्ते विष्णुपुरं व्रजेत् ॥ पूजा कार्य्यार्द्धरात्रे तु नयेत् शेषं महोत्सवैः । गीतैर्नानाविधैर्वाद्यैर्व्वेणुवीणामृदङ्गकैः ॥ नृत्यैर्वराङ्गनागीतैरङ्गनानाञ्च कीर्त्तनैः । चन्दनागुरुकस्तूरीपङ्कलेपैर्व्विराजितैः ॥ विहरद्भिर्विष्णुभक्तैः कार्य्य एष महोत्सवः । ध्यायेद्वृन्दावने रम्ये यमुनापुलिने वने ॥ निकुञ्जसदने कृष्णं गोपीमण्डलमण्डितम् । रासमण्डलयन्त्रस्य गोविन्दं कर्णिकागतम् ॥ द्बयोर्द्वयोर्गोपिकयोर्म्मध्ये सान्तमनेकधा । अपरं नटवेशेन मध्ये तं मुरलीधरम् ॥ गोपीगणमुखाम्भोजमधुपानमधुव्रतम् । कुलालचक्रप्रतिमं मण्डलं पङ्कजाङ्कितम् ॥ दलाष्टशोभितं कार्य्यं महिष्योऽष्टौ च सन्धिषु । मध्ये मध्ये च गोविन्दं पार्श्वयोरष्टरूपकम् ॥ मुकुन्दं माधवं कृष्णं नटनागरमेव च । हरिं दामोदरं विष्णुं पूजयेत् कामरूपिणम् ॥ तद्वाह्ये भूपुरे गोप्यः शतशोऽथ सहस्रशः । पूजनीयाः प्रयत्नेन नृत्यगीतपरायणाः ॥ असंख्या गोपिकास्तत्र मण्डलेऽष्टौ वराङ्गनाः । महिष्यस्ताः समाख्याताः सदासङ्गमुनिव्रताः ॥ भक्तोत्सवाभिलासेन कमला बहुरूपिणी । राधा विशाखा विमला सुमित्रा ललिता तथा । सुन्दरी कमला रम्भा महिष्योऽष्टौ प्रकीर्त्तिताः ॥ तारा राधा निरावाधा कृष्णा भेदमुपागताः । तासां ध्यानैर्व्वक्ष्यमाणैः पूजा कार्य्या विशेषतः ॥ उत्तीर्णे सायं समये गोप्यो वृन्दावनं ययुः । रासक्रीडां ततस्ताभिश्चक्रे च जगदीश्वरः ॥ गोप्यो रासक्रीडां चक्रुः पौर्णमास्यां महा- निशि । न तत्र पक्षिनिनदो न झिल्लीनिनदस्तथा ॥ महानिशा द्वे घटिके रात्रेर्म्मध्यमयामयोः । तदप्राप्तौ च कर्त्तव्यं पौर्णमास्यां निशामुखे ॥ एवं रासक्रीडां यस्तु कारयेद्भुवि मानवः । स सर्व्वदुस्कृतं त्यक्त्वा निर्व्वाणमुक्तिमाप्नुयात् ॥” इत्युत्कलकलिका ॥ (विलासः । यथा, भागवते । ५ । २ । १२ । “अस्मद्विधस्य मन उन्नयनौ बिभर्त्ति बह्वद्भुतं सरसराससुधादिवक्त्रे ॥” “बक्त्रे च बह्वद्भुतं बिभर्त्ति किं तदाह । रसो मधुरालापः रासो विलासस्ताभ्यां सहिता सुधा अधरामृतम् । आदिशब्दात् स्मितनर्म्मादि ।” इति तत्र श्रीधरस्वामी ॥ क्रिया । यथा, भाग- वते । ५ । १३ । १७ । “तैर्वञ्चितो हंसकुलं समाविशत् नरोचयन् शीलमुपैति वानरान् । तज्जातिरासेन सुनिर्वृतेन्द्रियः परस्परोद्बीक्षणविस्मृतावधिः ॥” “तैर्वञ्चितस्तत्र फलाभावं ज्ञात्वा हंसानां ब्राह्म- णानां कुलं पुनः प्रविशन् तेषां शीलं प्राय- श्चित्तपूर्ब्बकं पुनरुपनयनाद्याचारमरोचयन् अप्रियं पश्यन् वानरतुल्यान् भ्रष्टाचारान् शूद्रप्रायानुपैति । तज्जातिरासेन वानरजाति- क्रियया स्त्रियां मिथुनीभूय परस्परमुखोद्वीक्ष- णेन विस्मृतो जीवितावधिर्मरणकालो येन ।” इति तट्टीकायां श्रीधरस्वामी ॥ * ॥
)