संस्कृत-शब्दकोशः

रासक रासभवन्दिनी

रासभ

वाचस्पत्यम्

रासभ ||‍ पुंस्त्री० रास—अभच् । गर्द्दभे अमरः स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

रासभः || पुं, (रासते शब्दायते इति । रास + “रासिवल्लिभ्याञ्च ।” उणा० ३ । १२५ । इति अभच् ।)
गर्द्दभः । इत्यमरः । २ । ९ । ७८ ॥ (अयं हि ब्रह्मणः पद्भ्यां जातः । यथा, मार्क- ण्डेये । ४८ । २६ । “पद्भ्याञ्चाश्वान् समातङ्गान् रासभान् शशकान् मृगान् । उष्ट्रानश्वतरांश्चैव नानारूपाश्च जातयः ॥” अश्वतरः । स्वच्चर इति भाषा । यथा, महा- भारते । १ । १४५ । ७ । “स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना । वारणावतमद्यैव यथा यासि तथा कुरु ॥”)



Correction: