शब्दकल्पद्रुमः
रासभी || स्त्री (रासभ + ङीप् ।) गर्द्दभी । इति शब्दरत्नावली ॥ (यथा, महाभारते । १३ । २७ । १४ । “एतत् श्रुत्वा मतङ्गस्तु दारुणं रासभीवचः । अवतीर्य्य रथात्तूर्णं रासभीं प्रत्यभाषत ॥”)