वाचस्पत्यम्
रासयात्रा || स्त्री ६ त० । कार्त्तिकपौर्णमास्यां भगवदुत्सवभेदे ब्रह्मवै० प्र० २५ अ० । भगवद्रासश्च भा० १० स्क० २८ अ आदौ दृश्यः ।
शब्दकल्पद्रुमः
रासयात्रा || स्त्री (रासस्य यात्रा उत्सवः ।)
कार्त्तिकीपौर्णमासीकर्त्तव्यश्रीकृष्णस्योत्सवविशेषः । तद्बिवरणं यात्राशब्दे द्रष्टव्यम् ॥ * ॥
शक्ति- विषयकरासयात्रा यथा, —
“पौर्णमास्यां रासयात्रां देव्याः कुर्य्यान्नि- शार्द्धके । पूर्ब्बवन्मञ्चमास्थाप्य देवीं देव्यासनं यजेत् ॥” पौर्णमास्यां चैत्रपौर्णमास्याम् । “संमुखे राससंस्थानं भैरवीभैरवान्वितम् । कृत्वा तान् पूजयित्वा च भ्रामयेत् कुम्भचक्रवत् ॥ कोलाहलं मृदङ्गादिवाद्यैर्नृत्यैः सुगीतकैः । कुर्य्यादानन्दहृदयः साधकः स्थिरमानसः ॥ वित्तशाठ्यं न कुर्व्वीत देवीयात्रा सुखप्रदा ॥” इति वामकेश्वरतन्त्रे ५४ पटलः ॥