वाचस्पत्यम्
राहुदर्शन || न० राहोर्दर्शनं यत्र । चन्द्रसूर्य्ययोरुपरागरूपे १ ग्रहणे “स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शने” इति ति० त० । तेन उपरोक्ते एव चन्द्रेसूर्य्ये च तस्य दृश्यता नान्थदा तस्य छायारूपत्वात् ।
शब्दकल्पद्रुमः
राहुदर्शनं || क्ली (राहोर्दशनं यत्र ।)
राहो- श्चाक्षुषज्ञानम् । ग्रहणमिति यावत् । यथा, —
“चक्षुषा दर्शनं राहोर्यत्तद्ग्रहणमुच्यते । तत्र कर्म्माणि कुर्व्वीत गणनामात्रतो नतु ॥ राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु । स्नानमात्रन्तु कर्त्तव्यं दानश्राद्धविवर्ज्जितम् ॥” इति तिथ्यादितत्त्वम् ॥