शब्दकल्पद्रुमः
रिक्तकं || त्रि (रिक्त + कन् ।) शून्यम् । इत्य- मरः । ३ । १ । ५६ ॥ (यथा, मनुः । ८ । ४०४ । “पणं यानं तरे दाप्यं पौरुषेऽर्द्धपणं तरे । पादं पशुश्च योषिश्च पादार्द्धं रिक्तकः पुमान् ॥”)