वाचस्पत्यम्
रिक्ता || स्त्री रिच—क्त । उभयपक्षयोश्चतुर्थीनवमीचतुर्दशीतिथिषु ज्यो० त० ।
शब्दकल्पद्रुमः
रिक्ता || स्त्री (रिच् + क्तः । टाप् ।)
तिथिभेदः । सा तु चतुर्थी नवमी चतुर्द्दशी च । यथा, —
“नन्दा भद्रा जया रिक्ता पूर्णा च तिथयः क्रमात् ॥” इति तिथ्यादितत्त्वम् ॥ कर्म्मसु तस्या निषेधविधी यथा, —
“नन्दा भद्रा जया रिक्ता पूर्णा नामसदृक्- फलाः ।” न रिक्ता सर्व्वकर्म्मसु । इति ज्योतिःसारः ॥ “चन्द्रे चार्ककुजार्किशुक्रवियुते मध्येऽथवा पापयोः त्यक्त्वा च व्यतिपातवैधृतिदिनं विष्टिञ्च रिक्तां तिथिम् । क्रूराहायनचैत्रपौषरहिते लग्नांशके मानुषे ॥ रिक्तासु विधवा कन्या दर्शेऽपि स्याद्विवाहिता । शनैश्चरदिने चैव यदि रिक्ता तिथिर्भवेत् । तस्मिन् विवाहिता कन्या पतिसन्तानवर्द्धिनी ॥” इति दीपिका ॥ “षष्ठे मासि निशाकरे शुभकरे रिक्तेतरे वा तिथौ सौम्यादित्यसितेन्दुजीवदिवसे पक्षे च कृष्णेतरे ॥” इति भुजबलभीमः ॥ “द्वादशी सप्तमी नन्दा रिक्तासु पञ्चपर्व्वसु । बलमायुर्यशो हन्यात् शिशूनामन्नभक्षणम् ॥” इति कृत्यचिन्तामणिः ॥ “पूर्ब्बेशान्तकसर्पमूलरहितेष्वृक्षेष्वरिक्ते तिथौ षष्ठे मासि सितेन्दुजीवदिवसे गोज्ञर्क्ष मीनोदये । संप्राप्ते पञ्चमे वर्षे अप्रसुप्ते जनार्द्दने । षष्ठीं प्रतिपदञ्चैव वर्जयित्वा तथाष्टमीम् ॥ रिक्तां पञ्चदशीञ्चैव सौरिभौमदिने तथा । एवं सुनिश्चिते काले विद्यारम्भन्तु कारयेत् ॥” इति विष्णुधर्म्मोत्तरः ॥ “पूर्ब्बाग्नियाम्यफणिचित्रशिवान्यभेषु रिक्ताष्टमीं विगतचन्द्रतिथिं विहाय । द्व्यङ्गालिगोसमुदये विकुजार्किवारे शस्तेन्दुयोगकरणेषु हलप्रवाहः ॥” इति दीपिका ॥ “चन्द्रार्कयोर्भवेत् पूर्णा कुजे भद्रा जया गुरौ । बुधमन्दौ च नन्दायां शुक्रे रिक्तामृता तिथिः ॥” इति भीमपराक्रमः ॥ “सर्व्वत्र कार्य्ये बुधजीवशुक्राः केन्द्रत्रिकोणोपगताः प्रशस्ताः । तृतीयलाभारिगताश्च पापा- स्तिथिर्विरिक्ता शुभदस्य चाहः ॥” इति दीपिका ॥ “चतुर्थी नवमी चैव रिक्ता चैव चतुर्द्दशी । शुक्रे नन्दा बुधे भद्रा शनौ रिक्ता कुजे जया । गुरौ पूर्णा च संयुक्ता सिद्धियोगाः प्रकीर्त्तिताः ॥ बुधमन्दगता नन्दा कुजे भद्रा जया गुरौ । भृगुरिक्तामृतं प्रोक्तं पूर्णा च रविचन्द्रयोः ॥” इति ज्योतिःसागरसारः ॥ “षष्ठ्यष्टमीद्बादशीषु न गच्छेत्त्रिदिनस्पशि । पूर्णिमाप्रतिपद्दर्शरिक्तावमदिनेषु च । तथा यमद्बितीयायां यात्रायां मरणं भवेत् ॥” इति सत्कृत्यमुक्तावली ॥