वाचस्पत्यम्
रिक्थ || न० रिच—थक् । १ धने अमरः । २ मिताक्षराद्यु क्ते अप्रातबन्धे दाये च “स्वामी रिक्थक्रयसंविभागेत्यादि” गौतमस्मृतिः ।
शब्दकल्पद्रुमः
रिक्थं || क्ली (रिङ्क्ते वहिर्गच्छति नश्यतीति । रिच् + “पातॄतुदिवचिरिचिसिचिभ्यस्यक् ।” उणा० २ । ७ । इति थक् ।)
धनम् । इत्यमरः । २ । ९ । ९० ॥ (यथा, मनुः । ८ । २७ । “बालदायादिकं रिक्थं तावत् राजानुपालयेत् । यावत् स स्यात् समावृत्तो यावच्चातीतशैशवः ॥”)