शब्दकल्पद्रुमः
रिक्थहारी || [न्] त्रि, (रिक्थं हरतीति । हृ + णिनिः ।)
दायादः । धनहारी । यथा । “यदासौ नियुक्तो देवरादिः स्वयमप्यपुत्त्रोऽपुत्त्रस्य क्षेत्रे स्वपरपुत्त्रार्थं प्रवृत्तोऽयं जनयति स द्विपि- तृको द्व्यामुष्यायणो द्बयोरपि रिक्थहारी पिण्डदाता च ।” इति मिताक्षरायां दायभागः ॥