शब्दकल्पद्रुमः
रिङ्खणं || क्ली (रिङ्ख + ल्युट् ।) स्खलनम् । इति हेमचन्द्रः । ६ । १५९ ॥ (यथा, — “मुक्त्वाथ रिङ्खणविधिं पादचंक्रमणक्षमः । कुमारः पञ्चवर्षीयः कलाभ्यासं विधास्यति ॥”)