संस्कृत-शब्दकोशः

रिप्फ रिप्रवाह

रिप्र

शब्दकल्पद्रुमः

रिप्रः || त्रि (रीङ् स्रवण + “लीङ्रीङो ह्रस्वश्च पुट्च तरौ श्लेषणकुत्सितयोः ।” उणा० ५ । ५५ । इति रप्रत्ययः । धातोर्ह्नस्वः । प्रत्ययस्य पुट् च ।)
अधमः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (यथा, ऋग्वेदे । ९ । ७८ । १ । “गृभ्णाति रिप्रमविरस्य तान्वा ।” “रिप्रं अनुपादेयत्वेन पापरूपम् ॥” इति तद्भाष्ये सायणः ॥ क्ली, पापम् । यथा, ऋग्वेदे । १० । १७ । १० । “विश्वं हि रिप्रं प्रवहन्ति देवीः ॥” “देवीर्देव्यः देवनशीला आपः विश्वं सर्व्वं विप्रं पापं प्रवहन्ति पुरुषसकाशात् प्रगमयन्ति अपनयन्तीति यावत् ।” इति तद्भाष्ये सायणः ॥)



Correction: