शब्दकल्पद्रुमः
रिषिः || पुं, ऋषिः । ऋषन्ति ज्ञानसंसारयोः पारं गच्छन्ति ऋषयः । ऋषी श गतौ नाम्नीति किः । रिषिर्हसादिश्च । विद्याविदग्धमतयो रिषयः प्रसिद्धाः । इति प्रयोगात् । स्त्रियां ऋषी च । इत्यमरटीकायां भरतः ॥