वाचस्पत्यम्
रिष्ट || न० रिग—क्त । १ मङ्गले २ अशुभे ३ पापे च अमरः । भावे क्त । ४ नाशे, ५ अशुभादिमति त्रि० । उपचारात् । ६ खङ्गे, ७ रक्तशिग्रौ च पु० मेदि० । स्वार्थे क । तेषु ।
शब्दकल्पद्रुमः
रिष्टं || क्ली (रिष् + क्तः ।)
क्षेमम् । कल्याणम् । अशुभम् । अमङ्गलम् । (यथा, मार्कण्डेये । ५० । ८९ । “स्थालीपिधाने यत्राग्निर्दत्तो दर्व्वीफलेन वा । गृहे तत्र हि रिष्टानामशेषाणां समाश्रयः ॥”)
अभावः । नाशः । इत्यमरभरतौ ॥ अशुभस्या- भावः । इति केचित् । इति भरतः ॥ पापम् । इत्यजयः ॥ तद्वति, त्रि ॥
शब्दकल्पद्रुमः
रिष्टः || पुं, (रिष् + क्तः ।)
खड्गः । फेणिलः । स तु रक्तशिग्रुः । इति मेदिनी । टे, २७ ॥