वाचस्पत्यम्
रिष्य is an alternate of रिश्य. रिश्य(ष्य) || स्त्री रिश्य(ष्य)ते रिश(ष)क्यप् । मृगभेदे त्रिका० स्त्रियां योपधत्वात् टाप् । षध्यस्तत्रार्थे शब्दर० ।
शब्दकल्पद्रुमः
रिष्यः || पुं, (रिष्यते इति । रिष् + क्यप् ।)
मृग- विशेषः । यथा, —
“ऋष्य ऋश्यो रिश्यो रिष्य एणः स्यादेणकोऽपि च ।” इति शब्दरत्नावली ॥