शब्दकल्पद्रुमः
रीज्या || स्त्री घृणा । यथा । मोहो रीज्या जुगुप्सा च हृणीया हृणिया घृणेति वाच- स्पतिः । अयन्तु लज्जायां प्रसिद्धेः प्रमादात् घृणायां प्रयुक्त इति कलिङ्गः । इत्यमरटीकायां भरतः ॥