वाचस्पत्यम्
रुक्म || न० रुच् मन् नि० कुत्वम् । १ काञ्चने, २ धस्तूरेः अमरः ३ लौहे, मेदि० ४ नागकेसरे च राजनि० ।
शब्दकल्पद्रुमः
रुक्मं || क्ली (रोचते शोभते इति । रुच् + “युजि- रुचितिजां कुश्च । उणा० १ । १४५ । इति मक् कवर्गश्चान्तादेशः ।)
काञ्चनम् । (यथा, रामायणे । २ । ७० । २१ । “रुक्मनिष्कसहस्रे द्धे षोडशाश्वशतानि च । सत्कृत्य केकयीपुत्त्रं कैकेयो धनमादिशत् ॥”)
धुस्तूरम् । इत्यमरः ॥ लोहम् । इति मेदिनी । मे, २८ ॥ (अस्य पर्य्यायो यथा, —
“कृष्णायसं काललोहं रुक्मं तत्तीक्ष्णमप्यथ ॥” इति वैद्यकरत्नमालायाम् ॥)
नागकेशरम् । इति राजनिर्घण्टः ॥ (वर्णे, पुं । इति उज्ज्वलदत्तः । १ । १४५ ॥ दीप्तिशीले, त्रि । वथा, ऋग्वेदे । ५ । ६१ । १२ । “दिवि रुक्म इवोपरि ॥” “दिवि द्युलोके रुक्मो रोचमान आदित्य इव ।” इति तद्भाष्ये सायणः ॥)